छान्दोग्योपनिषद (टीका सहित) · अध्याय 7.10
छुप्भ्_7,9.2 फलं चान्नवतः प्रभूतान्नान्वै स लोकान्पानवतः प्रभूतोदकांश्चान्नपानयोर्नित्यसंबन्धाल्लोकानभिसि ध्यति ।
समानमन्यत् ॥2॥
इति च्छान्दोग्योपनिषदि सप्तमाध्यायस्य नवमः खण्डः
=======================================================================
स्तर्त् छुप् 7,10.1
आपो वावान्नाद् भूयस्यः ।
तस्माद् यदा सुवृष्टिर् न भवति व्याधीयन्ते प्राणा अन्नं कनीयो भविष्यतीति ।
अथ यदा सुवृष्टिर् भवत्य् आनन्दिनः प्राणा भवन्त्य् अन्नं बहु भविष्यतीति ।
आप एवेमा मूर्ता येयं पृथिवी यद् अन्तरिक्षं यद् द्यौर् यत् पर्वता यद् देवमनुष्या यत् पशवश् च वयांसि च तृणवनस्पतयः श्वापदान्य् आकीटपतङ्गपिपीलकम् ।
आप एवेमा मूर्ताः ।
अप उपास्स्वेति
छुप्भ्_7,10.1 आपो वावान्नाद्भूयस्यो ऽन्नकारणत्वात् ।
यस्मादेवं तस्माद्यदा यस्मिन्काले सुवृष्टिः सस्यहिता शोभना वृष्टिर्न भवति तदा व्याधीयन्ते प्राणा दुःखिनो भवन्ति ।
किंनिमित्तमित्याहान्नमस्मिन्संवत्सरे नः कनीयो ऽल्पतरं भविष्यतीति ।
अथ पुनर्यदा सुवृष्टिर्भवति तदाऽनन्दिनः सुखिनो हृष्टाः प्राणाः प्राणिनो भवन्त्यन्तं बहु प्रभूतं भविष्यतीति ।
अप्संभवत्वान्मूर्तस्यान्नस्याऽप एवेमा मूर्तामृर्तभेदाकारपरिणता इति मूर्ता येयं पृथिवी यदन्तरिक्षमित्यादि ।
आप एवेमा मूर्ता अतो ऽप उपाःस्वेति ॥1 ॥
स्तर्त् छुप् 7,10.2
स यो ऽपो ब्रह्मेत्य् उपास्ते ।
आप्नोति सर्वान् कामांस् तृप्तिमान् भवति ।
यावद् अपां गतं तत्रास्य यथाकामचारो भवति यो ऽपो ब्रह्मेत्य् उपास्ते ।
अस्ति भगवो ऽद्भ्यो भूय इति ।
अद्भ्यो वाव भूयो ऽस्तीति ।
तन् मे भगवान् ब्रवीत्व् इति
मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0