भाषा

ENहिગુ
ग्रंथ पाठ

छान्दोग्योपनिषद (टीका सहित) · अध्याय 7.17

7.17.1

छुप्भ्_7,16.1 स एष नारदः सर्वातिशयं प्राणं स्वमात्मानं सर्वात्मानं श्रुत्वा नातः परमस्तीत्युपरराम ।
न पूर्ववत्किमस्ति भगवः प्राणाद्भूय इति पप्रच्छ ।
यतस्तमेवं विकारानृतब्रह्मविज्ञानेन परितुष्टमकृतार्थं परमार्थसत्यातिवादिनमात्मानं मन्यमानं योग्यं शिष्यं मिथ्याग्रहविशेषाद्विप्रच्यावयन्नाह भगवान्सनत्कुमारः ।
एष तु वा अतिवदति यमहं वक्ष्यामि न प्राणविदतिवादी परमार्थतः ।
नामाद्यपेक्षं तु तस्यातिवादित्वम् ।
यस्तु भूमाख्यं सर्वातिक्रान्तं तत्त्वं परमार्थसत्यं वेद सो ऽतिवादीत्यत आह-एष तु वा अतिवदति यः सतेयन परमार्थसत्यविज्ञानवत्तयातिवदति ।
सो ऽहं त्वां प्रपन्नो भगवन्सत्येनातिवदानि तथामां नियुनक्तु भगवान्यथाहं सत्येनातिवदानीत्यभिप्रायः ।
यद्येवं सत्येनातिवदितुमिच्छसि सत्यमेव तु तावद्विजिज्ञासितव्यमित्युक्त आह नारदः ।
तथास्तु तर्हि सत्य भगवो विजिज्ञासे विशेषेण ज्ञातुमिच्छेयं त्वत्तो ऽहमिति ॥1॥
इति च्छान्दोग्योपनिषदि सप्तमाध्यायस्य षोडशः खण्डः
स्तर्त् छुप् 7,17.1
यदा वै विजानात्य् अथ सत्यं वदति ।
नाविजानन् सत्यं वदति ।
विजानन्न् एव सत्यं वदति ।
विज्ञानं त्व् एव विजिज्ञासितव्यम् इति ।
विज्ञानं भगवो विजिज्ञास इति

मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc