छान्दोग्योपनिषद (टीका सहित) · अध्याय 7.16
छुप्भ्_7,15.4 तस्मात्प्राणो ह्येवैतानि पित्रादीनि सर्वाणि भवति चलानि स्थिराणि च ।
स वा एष प्राणविदेवं यथोक्तप्रकारेण पश्यन्फलतो ऽनुभवन्नेवं मन्वान उपपत्तिभिश्चिन्तयन्नेवं विजानन्नुपपत्तिभिः संयोज्यैवमेवेति निश्चयं कुर्वन्नित्यर्थः ।
मननविज्ञानाभ्यां हि संभूतः शास्रार्थो निश्चितो दृष्टो भवेत् ।
अत एवं पश्यन्नतिवादी भवति नामाद्याशान्तमतीत्य वदनशीलो भवतीत्यर्थः ।
तं चेद्ब्रूयुस्तं यद्येवमतिवादिनं सर्वदा सर्वैः शब्दैर्नामाद्याशान्तमतीत्य वर्तमानं प्राणमेवं वदन्तमेवं पश्यन्तमतिवदनशीलमतिवादिनं ब्रह्मादिस्तम्बपर्यन्तस्य हि जगतः प्राण आत्माहमिति ब्रुवाणं यदि ब्रूयुरतिवाद्यसीति ।
बाढमतिवाद्यस्मीति ब्रूयान्नापह्नुवीत ।
कस्माद्ध्यसावपह्नुवीत ।
यत्प्राणं सर्वेश्वरमयमहमस्मीत्यात्मत्वेनोपगतः ॥4॥
इति च्छान्दोग्योपनिषदि सप्तमाध्यायस्य पञ्चदशः खण्डः
स्तर्त् छुप् 7,16.1
एष तु वा अतिवदति यः सत्येनातिवदति ।
सो ऽहं भगवः सत्येनातिवदानीति ।
सत्यं त्वेव विजिज्ञासितव्यम् इति ।
सत्यं भगवो विजिज्ञास इति
मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0