भाषा

ENहिગુ
ग्रंथ पाठ

छान्दोग्योपनिषद (टीका सहित) · अध्याय 7.18

7.18.1

छुप्भ्_7,17.1 यदा वै सत्यं परमार्थतो विजानातीदं परमार्थः सत्यमिति, ततो ऽनृतं विकारजातं वाचारम्भणं हित्वा सर्वविकारावस्थं सदेवैकं सत्यमिति तदेवाथ वदति यद्वदति ।
ननु विकारो ऽपि सत्यमेव ।
"नामरूपे सत्यं ताभ्य मयं प्राणश्छन्नः" ।
"प्राणा वै सत्यं तेषामेष सत्यम्"इति श्रुत्यन्तरात् ।
सत्यमुक्तं सत्यत्वं श्रुत्यन्तरे विकारस्य न तु परमार्थापेक्षमुक्तं किं तर्हीन्द्रियविषयत्वापेक्षं सच्च त्यच्चेति सत्यमित्युक्तं तद्द्वारेण च परमार्थसत्यस्योपलब्धिर्विवक्षितेति ।
प्राणा वै सत्यं तेषामेष सत्यमिति चोक्तम् ।
इहापि तदिष्टमेव ।
इह तु प्रणविषयात्परमार्थसत्यविज्ञानाभिमानाद्व्युत्थाप्य नारदं यत्सदेव सत्यं परमार्थतो भूमाख्यं तद्विज्ञापयिष्यामीत्येष विशेषतो विवक्षितोर्ऽथः ।
नाविजानन्सत्यं वदति यस्त्वविजानन्वदति सो ऽग्न्यादिशब्देनाग्न्यदीन्परमार्थसद्रूपान्मन्यमानो वदति न तु ते रूपत्रयव्यतिरेकेण परमार्थः सन्ति ।
तथा तान्यपि रूपाणि सदपेक्षया नैव सन्तीत्यतो नाविजानन्सत्यं वदति ।
विजानन्नेव सत्यं वदति ।
न च तत्सत्यविज्ञानमविजिज्ञासितमप्रार्थितं ज्ञायत इत्याह-विज्ञानं त्वेव विजिज्ञासितव्यमिति ।
यद्येवं विज्ञानं भगवो विजिज्ञास इति ।
एवं सत्यादीनां चोत्तरोत्तराणां करोत्यन्तानां पूर्वपूर्वहेतुत्वं व्याख्येयम् ॥1॥
इति च्छान्दोग्योपनिषदि सप्तमाध्यायस्य सप्तदशः खण्डः
स्तर्त् छुप् 7,18.1
यदा वै मनुते ऽथ विजानाति ।
नामत्वा विजानाति ।
मत्वैव विजानाति ।
मतिस् त्व् एव विजिज्ञासितव्येति ।
मतिं भगवो विजिज्ञास इति

मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc