छान्दोग्योपनिषद (टीका सहित) · अध्याय 7.15
छुप्भ्_7,14.2 यस्त्वाशां ब्रह्मेत्युपास्ते शृणु तस्य फलम् ।
आशया सदोपासितयास्योपासकस्य सर्वे कामाः समृध्यन्ति समृद्धिं गच्छन्ति ।
अमोघा हास्याऽशिषः प्रार्थनाः सर्वा भवन्ति यत्प्रार्थितं सर्वं तदवश्यं भवतीत्यर्थः ।
यावदाशाया गतमित्यादि पूर्ववत् ॥2॥
इति च्छान्दोग्योपनिषदि सप्तमाध्यायस्य चतुर्दश खण्डः
=======================================================================
स्तर्त् छुप् 7,15.1
प्राणो वाव आशाया भूयान् ।
यथा वा अरा नाभौ समर्पिता एवम् अस्मिन् प्राणे सर्वं समर्पितम् ।
प्राणः प्राणेन याति ।
प्राणः प्राणं ददाति ।
प्राणाय ददाति ।
प्राणो ह पिता ।
प्राणो माता ।
प्राणो भ्राता ।
प्राणः स्वसा ।
प्राण आचार्यः ।
प्राणो ब्राह्मणः
छुप्भ्_7,15.1 नामोपक्रममाशान्तं कार्यकारणत्वेन निमित्तनैमित्तिकत्वेन चोत्तरोत्तरभूयस्तयावस्थितं स्मृतिनिमित्तसद्भावमाशारशनापाशैर्विपाशितं सर्वं सर्वतो बिसमिव तन्तुभिर्यस्मिन्प्राणे समर्पितम् ।
येन च सर्वतो व्यापिनान्तर्बहिर्गतेन सूत्रे मणिगणा इव सूत्रेण ग्रथितं विधृतं च ।
स एष प्राणो वा आशाया भूयान् ।
कथमस्य भूयस्त्वमित्याह दृष्टान्तेन समर्थयंस्तद्भूयस्त्वम् ।
यथा वै लोके रथचक्रस्यारा रथनाभौ समर्पिताः संप्रोताः संप्रवेशिता इत्येतत् ।
एवमस्मिंल्लिङ्गसंघातरूपे प्राणे प्रज्ञात्मनि देहिके मुख्ये यस्मिन्परा देवता नामरूपव्याकरणायाऽदर्शादौ प्रतिबिम्बिवज्जीवेनाऽत्मनानुप्रतिष्टा ।
यश्च महाराजस्येव सर्वाधिकारीश्वरस्य ।
"कस्मिन्नन्न्वहमुत्क्रान्त उत्क्रान्तो बविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति स प्राणमसृजत"इति श्रुतेः यस्तु च्छायेवानुगत ईश्वरम् ।
"तद्यथा रथस्यारेषु नेमिरर्पितो नाभावरा अर्पिता एवमेवैता भूतमात्राः प्रज्ञामात्रास्वर्पिताः प्रज्ञामात्राः प्राणे ऽर्पिताः ।
" "स एष प्राण एव प्रज्ञात्मा"इति कौषीतकिनाम् ।
अत एवमस्मिन्प्राणे सर्वं यथोक्तं समर्पितम् ।
अतः स एष प्राणो ऽपरतन्त्रः प्राणेन स्वशक्त्यैव याति नान्यकृतं गमनादिक्रियास्वस्य सामर्थ्यमित्यर्थः ।
सर्वं क्रियाकारकफलभेदजातं प्राण एव न प्राणाद्बहिर्भूतमस्तीति प्रकरणार्थः ।
प्राणः प्राणं ददाति यद्ददाति तत्स्वीत्मभूतमेव ।
यस्मै ददाति तदपि प्राणायैव ।
अतः पित्राद्याख्यो ऽपि प्राण एव ॥1 ॥
स्तर्त् छुप् 7,15.2
स यदि पितरं वा मातरं वा भ्रातरं वा स्वसारं वाचार्यं वा ब्राह्मणं वा किंचिद् भृशम् इव प्रत्याह ।
धिक् त्वास्त्व् इत्य् एवैनम् आहुः ।
पितृहा वै त्वम् असि मातृहा वै त्वम् असि भ्रातृहा वै त्वम् असि स्वसृहा वै त्वम् अस्य् आचार्यहा वै त्वम् असि ब्राह्मणहा वै त्वम् असीति
छुप्भ्_7,15.2 कथं पित्रादिशब्दानां प्रसिद्धार्थोत्सर्गेण प्राणविषयत्वमिति ।
उच्यते - सति प्राणे पित्रादिषु पित्रादिशब्दप्रयोगात्तदुत्क्रान्तौ च प्रयोगाभावात् ।
कथं तदित्याह ।
स यः कश्चित्पित्रादीनामन्यतमं यदि तं भृशमिव तदननुरूपमिव किञ्चिद्वचनं त्वङ्कारादियुक्तं प्रत्याह तदैनं पार्श्वस्था आहुर्विवेकिनो धिक्त्वास्तु धिगस्तु त्वामित्येवम् ।
पितृहा वै त्वं पितुर्हन्तेत्यादि ॥2 ॥
स्तर्त् छुप् 7,15.3
अथ यद्य् अप्य् एनान् उत्क्रान्तप्राणाञ् छूलेन समासं व्यतिषंदहेत् ।
नैवैनं ब्रूयुः पितृहासीति न मातृहासीति न भ्रातृहासीति न स्वसृहासीति नाचार्यहासीति न ब्राह्मणहासीति
छुप्भ्_7,15.3 अथैनानेवोत्क्रान्तप्राणांस्त्यक्तदेहानथ यद्यपि शूलेन समासं समस्य व्यतिदहेद्व्यत्यस्य संदहेदेवमप्यतिक्रूरं कर्म समासव्यत्यासादिप्रकारेण दहनलक्षणं तद्देहसंबद्धमेव कुर्वाणं नैवैनं ब्रूयुः पितृहेत्यादि ।
तस्मादन्वयव्यतिरेकाभ्यामवगम्यत एतत्पित्राद्याख्यो ऽपि प्राण एवेति ॥3 ॥
स्तर्त् छुप् 7,15.4
प्राणो ह्य् एवैतानि सर्वाणि भवति ।
स वा एष एवं पश्यन्न् एवं मन्वान एवं विजानन्न् अतिवादी भवति ।
तं चेद् ब्रूयुर् अतिवाद्य् असीति ।
अतिवाद्य् अस्मीति ब्रूयात् ।
नापह्नुवीत
मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0