छान्दोग्योपनिषद (टीका सहित) · अध्याय 7.14
छुप्भ्_7,13.1-2 स्मरो वावाऽकाकाशाद्भूयः ।
स्मरणं स्मरो ऽन्तःकरणधर्मः ।
स आकाशाद्भूयानिति द्रष्टव्यं लिङ्गव्यत्ययेन स्मर्तुः स्मरणे हि सत्याकाशादि सर्वमर्थवत्स्मरणवतो भोग्यत्वात् ।
असति तु स्मरमे सदप्यसदेव ।
सत्त्वकार्याभावात् ।
नापि सत्त्वं स्मृत्यभावे शक्यमाकाशादीनामवगन्तुमित्यतः स्मरणस्याऽकाशाद्भृयस्त्वम् ।
दृश्यते हि लोके स्मरणस्य भूयस्त्वं यस्मात्तस्माद्यद्यपि समुदिता बहव एकस्मिन्नासीरन्नुपविशेयुस्ते तत्राऽसीना अन्योन्यभाषितमपि न स्मरन्तश्चेत्स्युर्नैव ते कञ्चन शब्दं शृणुयुस्तथा न मन्वीरन्मन्तव्यं चेत्स्मरेयुस्तदा मन्वीरन्स्मृत्यभावान्न मन्वीरंस्तथा न विजानीरन् ।
यदा वाव ते स्मरेयुर्मन्तव्यं विज्ञातव्यं श्रोतव्यं चाथ शृणुयुरथ मन्वीरन्नथ विजानीरन् ।
तथा स्मरेण वै मम पुत्रा एत इति पुत्रान्विजानाति स्मरेण पशून् ।
अतो भूयस्त्वात्स्मरमुपाःस्वेति ।
उक्तार्थमन्यत् ॥1-2 ॥
इति च्छान्दोग्योपनिषदि सप्तमाध्यायस्य त्रयोदशः खण्डः
=======================================================================
स्तर्त् छुप् 7,14.1
आशा वाव स्मराद् भूयसी ।
आशेद्धो वै स्मरो मन्त्रान् अधीते कर्माणि कुरुते पुत्रांश् च पशूंश् चेच्छत इमं च लोकं अमुं चेच्छते ।
आशाम् उपास्स्वेति
छुप्भ्_7,14.1 आशा वाव स्मराद्भूयसी ।
आशाप्राप्तवस्त्वाकाङ्क्षाऽशा तृष्णा काम इति यामाहुः पर्यायैः सा च स्मराद्भूयसी ।
कथम् ।
आशया ।
ह्यन्तःकरणस्थया स्मरति स्मर्तव्यम् ।
आशाविषयरूपं स्मरन्नसौ स्मरो भवत्यत आशेद्ध आशयाभिवर्धितः स्मरभूतः स्मरन्नृगादीन्मन्त्रानधीते ऽधीत्य च तदर्थं ब्राह्मणेभ्यो विधींश्च श्रुत्वा कर्माणि कुरुते तत्फलाशयैव पुत्रांश्च कर्मफलभूतानिच्छते ऽभिवाञ्छत्याशयैव तत्साधनान्यनुतिष्ठति ।
इमं च लोकमाशेद्ध एव स्मरंल्लोकसंग्रहहेतुभिरिच्छते ।
अमुं च लोकमाशेद्धः स्मरंस्तत्साधनानुष्ठानेनेच्छते ऽत आशारशानावबद्धं स्मराकाशादिनामपर्यन्तं जगच्चक्रीभूतं प्रतिप्राणि ।
अत्र आश आयाः स्मरादपि भूयस्त्वमित्यत आशामुपाःस्व ॥1 ॥
स्तर्त् छुप् 7,14.2
स य आशां ब्रह्मेत्य् उपास्ते ।
आशयास्य सर्वे कामाः समृध्यन्ति ।
अमोघा हास्याशिषो भवन्ति ।
यावद् आशाया गतं तत्रास्य यथाकामचारो भवति य आशां ब्रह्मेत्य् उपास्ते ।
अस्ति भगव आशाया भूय इति ।
आशाया भूयो ऽस्तीति ।
तन् मे भगवान् ब्रवीत्व् इति
मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0