छान्दोग्योपनिषद (टीका सहित) · अध्याय 7.13
छुप्भ्_7,12.2 फलं शृण्वाकाशवतो वै विस्तारयुक्तान्स विद्वांल्लोकान्प्रकाशवतः ।
प्रकाशाकाशयोर्नित्यसंबन्धात्प्रकाशवतश्च लोकानसंबाधान्संबाधनं संबाधः संबाधो ऽन्योन्यपीडा तद्रहितानसंबाधानुरुगायवतो विस्तीर्णगतीन्विस्तीर्णप्रचारांल्लोकानभिसिध्यति ।
यावदाकाशस्येत्याद्युक्तार्थम् ॥2॥
इति च्छान्दोग्योपनिषदि सप्तमाध्यायस्य द्वादशः खण्डः
=======================================================================
स्तर्त् छुप् 7,13.1-2
स्मरो वावाकाशाद् भूयः ।
तस्माद् यद्य् अपि बहव आसीरन्न् अ स्मरन्तो नैव ते कंचन शृणुयुर् न मन्वीरन् न विजानीरन् ।
यदा वाव ते स्मरेयुर् अथ शृणुयुर् अथ मन्वीरन्न् अथ विजानीरन् ।
स्मरेण वै पुत्रान् विजानाति स्मरेण पशून् ।
स्मरम् उपास्स्वेति
स यः स्मरं ब्रह्मेत्य् उपास्ते ।
यावत् स्मरस्य गतं तत्रास्य यथाकामचारो भवति यः स्मरं ब्रह्मेत्य् उपास्ते ।
अस्ति भगवः स्मराद् भूय इति ।
स्मराद् वाव भूयो ऽस्तीति ।
तन् मे भगवान् ब्रवीत्व् इति
मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0