भाषा

ENहिગુ
ग्रंथ पाठ

छान्दोग्योपनिषद (टीका सहित) · अध्याय 7.12

7.12.1

छुप्भ्_7,11.2 तस्य तेजस उपासनफलं-तेजस्वी वै भवति ।
तेजस्वत एव च लोकान्भास्वतः प्रकाशवतो ऽपहततमस्कान्बाह्याध्यात्मिकाज्ञानाद्यपनीततमस्कानभिसिध्यति ।
ऋज्वर्थमन्यत् ॥2॥
इति च्छान्दोग्योपनिषदि सप्तमाध्यायस्यैकादशः खण्डः
=======================================================================
स्तर्त् छुप् 7,12.1
आकाशो वाव तेजसो भूयान् ।
आकाशे वै सूर्याचन्द्रमसाव् उभौ विद्युन् नक्षत्राण्य् अग्निः ।
आकाशेनाह्वायति ।
आकाशेन सृणोति ।
आकाशेन प्रतिसृणोति ।
आकाशे रमते ।
आकाशे न रमते ।
आकाशे जायते ।
आकाशम् अभिजायते ।
आकाशम् उपास्स्वेति

7.12.2

छुप्भ्_7,12.1 आकाशो वाव तेजसो भूयान् ।
वायुसहितस्य तेजसः कारणत्वाद्व्योम्नो वायुमागृह्येति तेजसा सहोक्तो वायुरिति पृथगिह नोक्तस्तेजसः ।
कारणं हि लोके कार्याद्भूयो दृष्टम् ।
यथा घटादिभ्यो मृत्तथाऽकाशो वायुसहितस्य तेजसः कारणमिति ततो भूयान् ।
कथम् ।
आकाशो वै सूर्याचन्द्रमसावुभौ तेजोरूपौ विद्युन्नक्षत्राण्यग्निश्च तेजोरूपाण्याकाशे ऽन्तः ।
यच्च यस्यान्तर्वर्ति तदल्पं भूय इतरत् ।
किञ्चाऽकाशेनाऽह्वयति चान्यमन्य आहूतश्चेतर आकाशेन शृणोत्यन्योक्तं च शब्दमन्यः प्रतिशृणोत्याकाशे रमते क्रीडत्यन्योन्यं सर्वस्तथा न रमते चाऽकाशे वध्वादिवियोग आकाशे जायते न मूर्तेनावष्टब्धे ।
तथाऽकाशमभिलक्ष्याङ्कुरादि जायते न प्रतिलोमम् ।
अत आकाशमुपाःस्व ॥1 ॥
स्तर्त् छुप् 7,12.2
स य आकाशं ब्रह्मेत्य् उपास्ते ।
आकाशवतो वै स लोकान् प्रकाशवतो ऽसंबाधान् उरुगायवतो ऽभिसिध्यति ।
यावद् आकाशस्य गतं तत्रास्य यथाकामचारो भवति य आकाशं ब्रह्मेत्य् उपास्ते ।
अस्ति भगव आकाशाद् भूय इति ।
आकाशद् वाव भूयो ऽस्तीति ।
तन् मे भगवान् ब्रवीत्व् इति

मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc