भाषा

ENहिગુ
ग्रंथ पाठ

छान्दोग्योपनिषद (टीका सहित) · अध्याय 7.11

7.11.1

छुप्भ्_7,10.2 फलं-स यो ऽपो ब्रह्मेत्युपास्त आप्नोति सर्वान्कामान्काम्यान्मूर्तिमतो विषयानित्यर्थः ।
अप्संभवत्वाच्च तृप्तेरम्बुपासनात्तृप्तिमांश्च भवति ।
समानमन्यत् ॥2॥
इति च्छान्दोग्योपनिषदि सप्तमाध्यायस्य दशमः खण्डः
=======================================================================
स्तर्त् छुप् 7,11.1
तेजो वावाद्भ्यो भूयः ।
तद् वा एतद् वायुम् आगृह्याकाशम् अभितपति तदाहुर् निशोचति नितपति वर्षिष्यति वा इति ।
तेज एव तत्पूर्वं दर्शयित्वाथापः सृजते ।
तद् एतद् ऊर्ध्वाभिश् च तिरश्चीभिश् च विद्युद्भिर् आह्रादाश् चरन्ति तस्माद् आहुर् विद्योतते स्तनयति वर्षिष्यति वा इति ।
तेज एव तत्पूर्वं दर्शयित्वाथापः सृजते ।
तेज उपास्स्वेति

7.11.2

छुप्भ्_7,11.1 तेजो वावाद्भ्यो भूयः ।
तेजसो ऽपकारणत्वात् ।
कथमप्कारणत्वमित्याह ।
यस्मादब्योनिस्तेजस्तस्मात्तद्वा एतत्तेजो वायुमागृह्यावष्टभ्य स्वात्मना निश्चलीकृत्य वायुमाकाशमभितपत्याकाशमभिव्याप्नुवत्तपति यदा तदाऽहुर्लौकिका निशोचति संतपति सामान्येन जगन्नितपति देहानतो वर्षिष्यति वा इति ।
प्रसिद्धं हि लोके कारणमभ्युद्यतं दृष्टवतः कार्य भविष्यतीति विज्ञानम् ।
तेज एव तत्पूर्वमात्मानमुद्भूतं दर्शयित्वाथानन्तरमपः सृजते ऽतो ऽप्स्रष्टृत्वाद्भून्यो ऽद्भ्यस्तेजः ।
किञ्चान्यत्तदेतत्तेज एव स्तनयित्नुरूपेण वर्षहेतुर्भवति ।
कथम् ।
ऊर्ध्वाभिश्चोर्ध्वगाभिर्विद्युद्भिस्तिरश्चीभिश्च तिर्यग्गताभिश्च सहाऽह्रादाः स्तननशब्दाश्चरन्ति ।
तस्मात्तद्दर्शनादाहुर्लौकिका विद्योतते स्तनयति वर्षिष्यति वा इत्याद्युक्तार्थम् ।
अतस्तेज उपाःस्वेति ॥1 ॥
स्तर्त् छुप् 7,11.2
स यस् तेजो ब्रह्मेत्य् उपास्ते ।
तेजस्वी वै स तेजस्वतो लोकान् भास्वतो ऽपहततमस्कान् अभिसिध्यति ।
यावत् तेजसो गतं तत्रास्य यथाकामचारो भवति यस् तेजो ब्रह्मेत्य् उपास्ते ।
अस्ति भगवस् तेजसो भूय इति ।
तेजसो वाव भूयो ऽस्तीति ।
तन् मे भगवान् ब्रवीत्व् इति

मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc