भाषा

ENहिગુ
ग्रंथ पाठ

छान्दोग्योपनिषद (टीका सहित) · अध्याय 6.9

6.9.1

छुप्भ्_6,8.7 यस्मान्मूलादुत्थाय देहमाविशति जीवः स यः सदाख्य एष उक्तो ऽणिमाणुभावो जगतो मूलमैतदात्म्यमेतत्सदात्मा यस्य सर्वस्य तदेतदात्म तस्य भाव ऐतदात्म्यम् ।
एतेन सदाख्येनाऽत्मनाऽत्मवत्सर्वमिदं जगत् ।
नान्यो ऽस्त्यस्याऽत्मा संसारी ।
"नान्यदतो ऽति श्रोतृ"इत्यादिश्रुत्यन्तरात् ।
येन चाऽत्मनाऽत्मवत्सर्वमिदं जगत्तदेव सदाख्यं कारणं सत्यं परमार्थसत् ।
अतः स एवाऽत्मा जगतः प्रत्यक्स्वरूपं सतत्त्वं याथात्म्यम् ।
आत्मशब्दस्य निरुपपदस्य प्रत्यगात्मनि गवादिशब्दवन्निरूढत्वात् ।
अतस्तत्सत्त्वमसीति हे श्वेतकेतो इत्येवं प्रत्यायितः पुत्र आह-भूय एव मा भगवान्विज्ञापयतु यद्भवदुक्तं तत्सन्दिग्धं ममाहन्यहनि सर्वाः प्रजाः सुषुप्ते सत्संपद्यन्त इत्येतद्येन तत्संपद्य न विदुः सत्सम्पन्ना वयमिति ।
अतो दृष्टोन्तेन मां प्रत्याययत्वित्यर्थः ।
एवमुक्तस्तथास्तु सोम्येति होवाच पिता ॥7॥
इति च्छान्दोग्योपनिषदि षष्ठाध्यायस्याष्टमः खण्डः
=======================================================================
स्तर्त् छुप् 6,9.1
यथा सोम्य मधु मधुकृतो निस्तिष्ठन्ति नानात्ययानां वृक्षाणां रसान् समवहारम् एकतां रसं गमयन्ति

6.9.2

छुप्भ्_6,9.1 यत्पृच्छस्यहन्यहनि सत्संपद्य न विदुः सत्संपन्नाः स्म इति तत्कस्मादित्यत्र शृणु दृष्टान्तम् ।
यथा लोके हे सोम्य मधुकृतो मधु कुर्वन्तीति मधुकृतो मधुकरमक्षिका मधु निस्तिष्ठन्ति मधु निष्पादयन्ति तत्पराः सन्तः ।
कथम्?नानात्ययानां नानागतीनां नानादिक्कानां वृक्षाणां रसान्समवहारं समाहृत्यैकतामेकभावं मधुत्वेन रसान्गमयन्ति मधुत्वमापादयन्ति ॥1 ॥
स्तर्त् छुप् 6,9.2
ते यथा तत्र न विवेकं लभन्ते ऽमुष्याहं वृक्षस्य रसो ऽस्म्य् अमुष्याहं वृक्षस्य रसो ऽस्मीति ।
एवम् एव खलु सोम्येमाः सर्वाः प्रजाः सति संपद्य न विदुः सति संपद्यामह इति

6.9.3

छुप्भ्_6,9.2 ते रसा यथा मधुत्वेनैकतां गतास्तत्र मधुनि विवेकं न लभन्ते ।
कथम्, अमुष्याहमाम्रस्य पनसस्य वा वृक्षस्य रसो ऽस्मीति ।
यथा हि लोके बहूनां चेतनावतां समेतानां प्राणिनां विवेकलाभो भवत्यमुष्याहं पुत्रो ऽमुष्याहं नप्तास्मीति ।
ते च लब्धविवेकाः सन्तो न संकीर्यन्ते न तथेहानेकप्रकारवृक्षरसानामपि मधुराम्लतिक्तकटुकादीनां मधुत्वेनैकतां गतानां मधुरादिभावेन विवेको गृह्यत इत्यभिप्रायः ।
यथायं दृष्टान्त इत्येवमेव खलु सोम्येमाः सर्वाः प्रजा अहन्यहनि सति संपद्य सुषुप्तकाले मरणप्रलययोश्च न विदुर्न विजानीयुः सति संपद्यामह इति संपन्ना इति वा ॥2 ॥
स्तर्त् छुप् 6,9.3
त इह व्यघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दंशो वा मशको वा यद् यद् भवन्ति तद् आभवन्ति

6.9.4

छुप्भ्_6,9.3 यस्माच्चैवमात्मनः सद्रूपतामज्ञात्वैव सत्संपद्यन्ते ।
अतस्त इह लोके यत्कर्मनिमित्तां यां यां जातिं प्रतिपन्ना आसुर्व्याघ्रादीनां व्याघ्रो ऽहं सिंहो ऽहमित्येवं ते तत्कर्मज्ञानवासनाङ्किताः सन्तः सत्प्रविष्टा अपि तद्भावेनैव पुनराभवन्ति पुनः सत आगत्य व्याघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दंशो वा मशको वा यद्यत्पूर्वमिह लोके भवन्ति वभूवुरित्यर्थः ।
तदेव पुनरागत्य भवन्ति युगसहस्रकोट्यन्तरितापि संसारिणो जन्तोर्या पुरा भाविता वासना सा न नश्यतीत्यर्थः ।
"यथाप्रज्ञं हि संभवाः"इति श्रुत्त्यन्तरात् ॥3 ॥
स्तर्त् छुप् 6,9.4
स य एषो ऽणिमैतद् आत्म्यम् इदं सर्वम् ।
तत् सत्यम् ।
स आत्मा ।
तत् त्वम् असि श्वेतकेतो इति ।
भूय एव मा भगवान् विज्ञापयत्व् इति ।
तथा सोम्येति होवाच

मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc