भाषा

ENहिગુ
ग्रंथ पाठ

छान्दोग्योपनिषद (टीका सहित) · अध्याय 6.10

6.10.1

छुप्भ्_6,9.4 ताः प्रजा यस्मिन्प्रविश्य पुनराविर्भवन्ति ।
ये त्वितो ऽन्ये सत्सत्यात्माभिसंधा यमणुभावं सदात्मानं प्रविश्य नाऽवर्तन्ते स य एषो ऽणिमेत्यादि व्याख्यातम् ।
यथा लोके स्वकीये गृहे सुप्त उत्थाय ग्रामान्तरं गतो जानाति स्वगृहादागतो ऽस्मीत्येवं सत आगतो ऽस्मीति च जन्तूनां कस्माद्विज्ञानं न भवतीति भूय एव मा भगवान्विज्ञापयत्वित्युक्तस्तथा सोभ्येति होवाच पिता ॥4॥
इति च्छान्दोग्योपनिषदि षष्ठाध्यायस्य नवमः खण्डः
=======================================================================
स्तर्त् छुप् 6,10.1
इमाः सोम्य नद्यः पुरस्तात् प्राच्यः स्यन्दन्ते पश्चात् प्रतीच्यः ।
ताः समुद्रात् समुद्रम् एवापियन्ति ।
स समुद्र एव भवति ।
ता यथा तत्र न विदुर् इयम् अहम् अस्मीयम् अहम् अस्मीति

6.10.2

छुप्भ्_6,10.1 शृणु तत्र दृष्टान्तं यथा सोम्येमा नद्यो गङ्गाद्याः पुरस्तात्पूर्वां दिशं प्रति प्राच्यः प्रागञ्चनाः स्यन्दन्ते स्रवन्ति ।
पश्चात्प्रतीचीं दिशं प्रति सिन्ध्वाद्याः प्रतीचीमञ्चन्ति गच्छन्तीति प्रतीच्यस्ताः समुद्रादम्भोनिधेर्जलधरैराक्षिप्ताः पुनर्वृष्टिरूपेण पतिता गङ्गादिनदीरूपिण्यः पुनः समुद्रमम्भोनिधिमेवापियन्ति स समुद्र एव भवति ता नद्यो यथा तत्र समुद्रे समुद्रात्मनैकतां गता न विदुर्न जानन्तीयं गङ्गाहमस्मीयं यमुनाहमस्मीतीयं मह्यहमस्मीति च ॥1 ॥
स्तर्त् छुप् 6,10.2-3
एवम् एव खलु सोम्येमाः सर्वाः प्रजाः सत आगम्य न विदुः सत आगच्छामह इति ।
त इह व्याघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दंशो वा मशको वा यद् यद् भवन्ति तद् आभवन्ति

6.10.3

स य एषो ऽणिमैतद् आत्म्यम् इदं सर्वम् ।
तत् सत्यम् ।
स आत्मा ।
तत् त्वम् असि श्वेतकेतो इति ।
भूय एव मा भगवान् विज्ञापयत्व् इति ।
तथा सोम्येति होवाच

मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc