भाषा

ENहिગુ
ग्रंथ पाठ

छान्दोग्योपनिषद (टीका सहित) · अध्याय 6.15

6.15.1

छुप्भ्_6,14.3 स य इत्याद्युक्तार्थम् ।
आचार्यवान्विद्वान्येन क्रमेण सत्सम्पद्यते तं क्रमं दृष्टान्तेन भूय एव मा भगवान्विज्ञापयत्विति ।
तथा सोम्येति होवाच ॥3॥
इति च्छान्दोग्योपनिषदि षष्ठाध्यायस्य चतुर्दशः खण्डः
=======================================================================
स्तर्त् छुप् 6,15.1
पुरुषं सोम्योतोपतापिनं ज्ञातयः पर्युपासते जानासि मां जानासि माम् इति ।
तस्य यावन् न वाङ् मनसि संपद्यते मनः प्राणे प्राणस् तेजसि तेजः परस्यां देवतायां तावज् जानाति

6.15.2

छुप्भ्_6,15.1 पुरुषं हे सोम्योतोपतापिनं ज्वराद्युपतापवन्तं ज्ञातयो बान्धवाः परिवार्योपासते मुमूर्षुं जानासि मां तव पितरं पुत्रं भ्रातरं वेति पृच्छन्तस्तस्य मुमूर्षोर्यावन्न वाङ्मनसि सम्पद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायामित्येतदुक्तर्थम् ॥1 ॥
स्तर्त् छुप् 6,15.2
अथ यदास्य वाङ् मनसि संपद्यते मनः प्राणे प्राणस् तेजसि तेजः परस्यां देवतायाम् अथ न जानाति

6.15.3

छुप्भ्_6,15.2 संसारिणो यो मरणक्रमः स एवायं विदुषो ऽपि सत्सम्पत्तिक्रम इत्येतदाह परस्यां देवतायां तेजसि सम्पन्ने ऽथ न जानाति ।
अविद्वांस्तु सत उत्थाय प्राग्भावितं व्याघ्रादिभावं देवमनुष्यादिभावं वा विशति ।
विद्वांस्तु शास्राचार्योपदेशजनितज्ञानदीपप्रकाशितं सद्ब्रह्मात्मानं प्रविश्य नाऽवर्तत इत्येष सत्सम्पत्तिक्रमः ।
अन्ये तु मूर्धन्यया नाड्योत्क्रम्याऽदित्यादिद्वारेण सद्गच्छन्तीत्याहुस्तदसत् ।
देशकालनिमित्तफलाभिसन्धानेन गमनदर्शनात् ।
न हि सदात्मैकत्वदर्शिनः सत्याभिसन्धस्य देशकालनिमित्तफलाद्यनृताभिसन्धिरुपपद्यते ।
विरोधात् ।
अविद्याकामकर्मणां च गमननिमित्तानां सद्विज्ञानहुताशनविप्लुष्टत्वाद्गमनानुपपत्तिरेव ।
"पर्याप्तकामस्य कृतात्मनस्तिवहैव सर्वे प्रविलीयन्ति कामाः"इत्याद्याथर्वणे ।
नदीसमुद्रदृष्टान्तश्रुतेश्च ॥2 ॥
स्तर्त् छुप् 6,15.3
स य एषो ऽणिमैतद् आत्म्यम् इदं सर्वम् ।
तत् सत्यम् ।
स आत्मा ।
तत् त्वम् असि श्वेतकेतो इति ।
भूय एव मा भगवान् विज्ञापयत्व् इति ।
तथा सोम्येति होवाच

मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc