भाषा

ENहिગુ
ग्रंथ पाठ

छान्दोग्योपनिषद (टीका सहित) · अध्याय 6.11

6.11.1

छुप्भ्_6,10.2,3 एवमेव खलु सोम्येमाः सर्वाः प्रजा यस्मात्सति सम्पद्य न विदुस्तस्मात्सत आगम्य न विदुः सत आगच्छामह आगता इति वा ।
त इह व्याघ्र इत्यादि समानमन्यत् ।
दृष्टं लोके जले वीचीतरङ्गफेनबुदादय उत्थिताः पुनस्तद्भावं गता विनष्टा इति ।
जीवास्तु तत्कारणमणुभावं प्रत्यहं गच्छन्तो ऽपि सुषुप्ते मरणप्रलययोश्च न विनश्यन्तीत्येतत् भूय एव मा भगवान्विज्ञापयतु दृष्टान्तेन ।
तथा सोम्येति होवाच पिता ॥2-3 ॥
इति च्छान्दोग्योपनिषदि षष्ठाध्यायस्य दशमः खण्डः
=======================================================================
स्तर्त् छुप् 6,11.1
अस्य सोम्य महतो वृक्षस्य यो मूले ऽभ्याहन्याज् जीवन् स्रवेद् यो मध्ये ऽभ्याहन्याज् जीवन् स्रवेद् यो ऽग्रे ऽभ्याहन्याज् जीवन् स्रवेत् ।
स एष जीवेनात्मनानुप्रभूतः पेपीयमानो मोदमानस् तिष्ठति

6.11.2

छुप्भ्_6,11.1 शृणु दृष्टान्तमस्य - हे सोम्य महतो ऽनेकशाखादियुक्तस्य वृक्षस्यास्येत्यग्रतः स्थितं वृक्षं दर्शयन्नाह ।
यदि यः कश्चिदस्य मूले ऽभ्याहन्यात्परश्वादिना सकृद्घातमात्रेण न शुष्यतीति जीवन्नेव भवति तदा तस्य रसः स्रवेत् ।
तथा यो मध्ये ऽभ्याहन्याज्जीवन्स्रवेत्तथा यो ऽग्रे ऽभ्याहन्याज्जीवन्स्रवेत्स एष वृक्ष इदानीं जीवेनाऽत्मनानुप्रभूतो ऽनुव्याप्तः पेपीयमानो ऽत्यर्थं पिबन्नुदकं भौमांश्च रसान्मूलैर्गृह्णन्मोदमानो हर्षं प्राप्नुवंस्तिष्ठति ॥1॥
स्तर्त् छुप् 6,11.2
अस्य यद् एकां शाखां जीवो जहात्य् अथ सा शुष्यति ।
द्वितीयां जहात्य् अथ सा शुष्यति ।
तृतीयां जहात्य् अथ सा शुष्यति ।
सर्वं जहाति सर्वः शुष्यति

6.11.3

छुप्भ्_6,11.2 तस्यास्य यदेकां शाखां रोगग्रस्तामाहतां वा जीवो जहात्युपसंहरति शाखायां विप्रसृतमात्मांशम् ।
अथ सा शुष्यति ।
वाङ्मनःप्राणकरणग्रामानुप्रविष्टो हि जीव इति तदुपसंहार उपसंह्रियते ।
जीवेन च प्राणयुक्तेनाशितं पोतं च रसतां गतं जीवच्छरीरं वृक्षं वर्धयद्रसरूपेण जीवस्य सद्भावे लिङ्गं भवति ।
अशितपीताभ्यां हि देहे जीवस्तिष्ठति ते चाशितपीते जीवकर्मानुसारिणी इति ।
तस्यैकाङ्गवैकल्यनिमित्तं कर्म यदोपस्थितं भवति तदा जीव एकां शाखां जहाति शाखाया आत्मानमुपसंहरति ।
अथ तदा सा शाखा शुष्यति ।
जीवस्थितिनिमित्तो रसो जीवकर्माक्षिप्तो जीवोपसंहारे न तिष्ठति ।
रसापगमे च शाखा शोषमुपैति ।
तथा सर्वं वृक्षमेव यदायं जहाति तदा सर्वो ऽपि वृक्षः शुष्यति ।
वृक्षस्य रसस्रवणशोषणादिलिङ्गाज्जीववत्त्वं दृष्टान्तश्रुतेश्च चेतनावन्तः स्थावरा इति बौद्धकाणादमतमचेतनाः स्थावरा इत्येतदसारमिति दर्शितं भवति ॥2 ॥
स्तर्त् छुप् 6,11.3
एवम् एव खलु सोम्य विद्धीति ह उवाच ।
जीवापेतं वाव किलेदं म्रियते न जीवो म्रियत इति ।
स य एषो ऽणिमैतद् आत्म्यम् इदं सर्वम् ।
तत् सत्यम् ।
स आत्मा ।
तत् त्वम् असि श्वेतकेतो इति ।
भूय एव मा भगवान् विज्ञापयत्व् इति ।
तथा सोम्येति होवाच

मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc