ग्रंथ पाठ
छान्दोग्योपनिषद (टीका सहित) · अध्याय 5.23
5.23.1
इति च्छान्दोग्योपनिषदि पञ्चमाध्यायस्य द्वाविंशः खण्डः
=======================================================================
स्तर्त् छुप् 5,23.1-2
अथ याम् पञ्चमीं जुहुयात् तां जुहुयात् उदानाय स्वाहेति ।
उदानस् तृप्यति
5.23.2
उदाने तृप्यति त्वक् तृप्यति त्वचि तृप्यन्त्यां वायुस् तृप्यति ।
वायौ तृप्यत्य् आकाशस् तृप्यति ।
आकाशे तृप्यति यत् किंच वायुश् चाकाशश् चाधितिष्ठतस् तत् तृप्यति ।
तस्यानु तृप्तिं तृप्यति प्रजया पशुभिर् अन्नाद्येन तेजसा ब्रह्मवर्चसेनेति
मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0