भाषा

ENहिગુ
ग्रंथ पाठ

छान्दोग्योपनिषद (टीका सहित) · अध्याय 5.19

5.19.1

छुप्भ्_5,18.2 कस्मादेवम् ।
यस्मात्तस्य ह वै प्रकृतस्यैवैतस्याऽत्मनो वैश्वानरस्य मूर्धैव सुतेजाश्चक्षुर्विश्वरूपः प्राणः पृथग्वर्त्माऽत्मा सन्देहो बहुलो बस्तिरेव रयिः पृथिव्येव पादौ ।
अथवा विध्यर्थमेतद्वचनमेवमुपास्य इति ।
अथेदानीं वैश्वानरविदो भोजने ऽग्निहोत्रं संपिपादयिषन्नाह-एतस्य वैश्वानरस्य भोक्तुरुर एव वेदिराकारसामावन्यात् ।
लोमानि बर्हिर्वेद्यामिवोरसि लोमान्यास्तीर्णानि (न) दृश्यन्ते ।
हृदयं गार्हपत्यो हृदयाद्धि मनः प्रणीतमिवानन्तरी भवत्यतो ऽन्वाहार्यपचनो ऽग्निर्मनः ।
आस्यं मुखमाहवनीय इवाऽहवनीयो हूयते ऽस्मिन्नन्नमिति ॥2॥
इति च्छान्दोग्योपनिषदि पञ्चमाध्यायस्याष्टादशः खण्डः
=======================================================================
स्तर्त् छुप् 5,19.1
तद् यद् भक्तं प्रथमम् आगच्छेत् तद् धोमीयम् ।
स यां प्रथमाम् आहुतिं जुहुयात् तां जुहुयात् प्राणाय स्वाहेति ।
प्राणस् तृप्यति

5.19.2

छुप्भ्_5,19.1 तत्तत्रैवं सति यद्भक्तं भोजनकाल आगच्छेद्भोजनार्थं तद्धोतव्यम् ।
अग्निहोत्रसम्पन्मात्रस्य विवक्षितत्वान्नाग्निहोत्राङ्गेतिकर्तव्यताप्राप्तिरिह ।
स भोक्ता यां प्रथमामाहुतिं जुहुयात्तां कथं जुहुतादित्याह-प्राणाय स्वाहेत्यनेन मन्त्रेणाऽहुतिशब्दादवदानप्रमाणमन्नं प्रक्षिपेदित्यर्थः ।
तेन प्राणस्तृप्यति ॥1 ॥
स्तर्त् छुप् 5,19.2
प्राणे तृप्यति चक्षुस् तृप्यति ।
चक्षुषि तृप्यत्य् आदित्यस् तृप्यति ।
आदित्ये तृप्यति द्यौस् तृप्यति ।
दिवि तृप्यन्त्यां यत् किंच द्यौश् चादित्यश् चाधितिष्ठतस् तत् तृप्यति ।
तस्यानु तृप्तिं तृप्यति प्रजया पशुभिर् अन्नाद्येन तेजसा ब्रह्मवर्चसेनेति

मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc