भाषा

ENहिગુ
ग्रंथ पाठ

छान्दोग्योपनिषद (टीका सहित) · अध्याय 5.20

5.20.1

छुप्भ्_5,19.2 प्राणे तृप्यति चक्षुरादित्यो द्यौश्चेत्यादि तृप्यति यच्चान्यद्द्यौश्चाऽदित्यश्च स्वामित्वेनाधितिष्ठतस्तच्च तृप्यति तस्य तृप्तिमनु स्वयं भुञ्जानस्तृप्यत्येवं प्रत्यक्षम् ।
किं च प्रजादिभिश्च ।
तेजः शरीरस्था दीप्तिरुज्ज्वलत्वं प्रागल्भ्यं वा, ब्रह्मवर्चसं वृत्तस्वाध्यायनिमित्तं तेजः ॥2॥
इति च्छान्दोग्योपनिषदि पञ्चमाध्यायस्यैकोनविंशः खण्डः
=======================================================================
स्तर्त् छुप् 5,20.1
अथ यां द्वितीयां जुहुयात् तां जुहुयाद् व्यानाय स्वाहेति ।
व्यानस् तृप्यति

5.20.2

व्याने तृप्यति श्रोत्रं तृप्यति ।
श्रोत्रे तृप्यति चन्द्रमास् तृप्यति ।
चन्द्रमसि तृप्यति दिशस् तृप्यन्ति ।
दिक्षु तृप्यन्तीषु यत् किंच दिशश् चन्द्रमाश् चाधितिष्ठन्ति तत् तृप्यति ।
तस्यानु तृप्तिं तृप्यति प्रजया पशुभिर् अन्नाद्येन तेजसा ब्रह्मवर्चसेनेति

मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc