छान्दोग्योपनिषद (टीका सहित) · अध्याय 5.18
छुप्भ्_5,17.1,2 अथ होवाचोद्दालकमित्यादि समानम् ।
पृथिवीमेव भगवो राजन्निति होवाच ।
एष वै प्रतिष्ठा पादौ वैश्वानरस्य ।
पादौ ते व्यम्लास्येतां विम्लानावभविष्यतां श्लथीभूतौ यन्मां नाऽगमिष्य इति ॥1-2 ॥
इति च्छान्दोग्योपनिषदि पञ्चमाध्यायस्य सप्तदशः खण्डः
=======================================================================
स्तर्त् छुप् 5,18.1
तान् होवाच ।
एते वै खलु यूयं पृथग् इवेमम् आत्मानं वैश्वानरं विद्वांसो ऽन्नम् अत्थ ।
यस् त्व् एतम् एवं प्रादेशमात्रम् अभिविमानम् आत्मानं वैश्वानरम् उपास्ते ।
स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्व् आत्मस्व् अन्नम् अत्ति
छुप्भ्_5,18.1 तान्यथोक्तवैश्वानरदर्शनवतो होवाच ।
एते यूयं वै खल्वित्यनर्थकौ ।
यूयं पृथगिवापृथक्सन्तमिममेकं वैश्वानरमात्मानं विद्वांसो ऽन्नमत्थ परिच्छिन्नात्मबुद्ध्येत्येतद्धस्तिदर्शन इव जात्यन्धाः ।
यस्त्वेतमेवं यथोक्तावयवैर्द्युमूर्धादिभिः पृथिवीपादान्तैर्विशिष्टमेकं प्रादेशमात्रं प्रादेशैर्द्युमूर्धादिभिः पृथिवीपादान्तैरध्यात्मं मीयते ज्ञायत इति प्रादेशमात्राम् ।
मुखादिषु वा करणेष्वत्तृत्वेन मीयत इति प्रादेशमात्रः ।
द्युलोकादिपृथिव्यन्तप्रदेशपरिमाणो वा प्रादेशमात्रः ।
प्रकर्षेण शास्रेणाऽदिश्यन्त इति प्रादेशा द्युलोकादय एतावत्परिमाणः ।
शाखान्तरे तु मूर्धादिः चिबुकप्रतिष्ठ इति प्रादेशमात्रं कल्पयन्ति ।
इह तु न तथाभिप्रेतः ।
तस्य ह वा एतस्याऽत्मन इत्याद्युपसंहारात् ।
प्रत्यगात्मतयाभिविमीयते ऽहमिति ज्ञायत इत्यभिविमानस्तमेतमात्मानं वैश्वानरं विश्वान्नरान्नयति पुण्यपापानुरूपां गतिं सर्वात्मैष ईश्वरो वैश्वानरो विश्वो नर एव वा सर्वात्मत्वात् ।
विश्वैर्वा नरैः प्रत्यगात्मतया प्रविभज्य नीयत इति वैश्वानरस्तमेवमुपास्ते यः सो ऽदन्नन्नादी सर्वेषु लोकेषु द्युलोकादिषु सर्वेषु भूतेषु चराचरेषु सर्वेष्वात्मसु शरीरेन्द्रियमनोबुद्धिषु तेषु ह्यात्मकल्पनाव्यपदेशः प्राणिनामन्नमत्ति वैश्वानरवित्सर्वात्मा सन्नन्नमत्ति ।
न यथाज्ञः पिण्डमात्राभिमानः सन्नित्यर्थः ॥1 ॥
स्तर्त् छुप् 5,18.2
तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूर्धैव सुतेजाश् चक्षुर् विश्वरूपः प्राणः पृथग्वर्त्मात्मा संदेहो बहुलो बस्तिर् एव रयिः पृथिव्य् एव पादाव् उर एव वेदिर् लोमाणि बर्हिर् हृदयं गार्हपत्यो मनो ऽन्वाहार्यपचन आस्यम् आहवनीयः
मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0