भाषा

ENहिગુ
ग्रंथ पाठ

छान्दोग्योपनिषद (टीका सहित) · अध्याय 5.17

5.17.1

छुप्भ्_5,16.2 बस्तिस्त्वेष आत्मनो वैश्वानरस्य बस्तिर्मूत्रसंग्रहस्थानं बस्तिर्मूत्रसंग्रहस्थानं बस्तिस्ते व्यभेत्स्यद्भिन्नो ऽभविष्यद्यन्मां नाऽगमिष्य इति ॥2॥
इति च्छान्दोग्योपनिषदि पञ्चमाध्यायस्य षोडशः खण्डः
=======================================================================
स्तर्त् छुप् 5,17.1-2
अथ होवाचोद्दालकम् आरुणिम् ।
गौतम कं त्वम् आत्मानम् उपस्स इति ।
पृथिवीम् एव भगवो राजन्न् इति होवाच ।
एष वै प्रतिष्ठात्मा वैश्वानरो यं त्वम् आत्मानम् उपास्से ।
तस्मात् त्वं प्रतिष्ठितो ऽसि प्रजया च पशुभिश् च

5.17.2

अत्स्य् अन्नं पश्यसि प्रियम् ।
अत्त्य् अन्नं पश्यति प्रियं भवत्य् अस्य ब्रह्मवर्चसं कुले य एतम् एवम् आत्मानं वैश्वानरम् उपास्ते ।
पादौ त्व् एताव् आत्मन इति होवाच ।
पादौ ते व्यम्लास्येतां यन् मां नागमिष्य इति

मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc