छान्दोग्योपनिषद (टीका सहित) · अध्याय 5.14
छुप्भ्_5,13.2 किञ्च त्वामनु प्रवृत्तो ऽश्वतरीभ्यां युक्तो रथो ऽश्वतरीरथो दासीनिष्को दासीभिर्युक्तो निष्को हारो दासीनिष्कः ।
अत्स्यन्नमित्यादि समानम् ।
चक्षुर्वैश्वानरस्य तु सविता ।
तस्य समस्तबुद्ध्योपासनादन्धो ऽभविष्यश्चक्षुर्हीनो ऽभवि ष्यो यन्मां नाऽगमिष्य इति पूर्ववत् ॥2॥
इति च्छान्दोग्योपनिषदि पञ्चमाध्यायस्य त्रयोदशः खण्डः
=======================================================================
स्तर्त् छुप् 5,14.1
अथ होवाचेन्द्रद्युम्नं भाल्लवेयम् ।
वैयाघ्रपद्य कं त्वम् आत्मानम् उपास्स इति ।
वायुम् एव भगवो राजन्न् इति होवाच ।
एष वै पृथग्वर्त्मात्मा वैश्वानरो यं त्वम् आत्मानम् उपास्से ।
तस्मात् त्वां पृथग् बलय आयन्ति पृथग् रथश्रेणयो ऽनुयन्ति
छुप्भ्_5,14.1 अथ होवाचेन्द्रद्युम्नं भाल्लवेयं वैयाघ्रपद्य कं त्वमात्मानमुपाःस इत्यादि समानम् ।
पृथग्वर्त्मा नाना वर्त्मानि यस्य वायोरावहोद्वहादिभिर्भेदैर्वर्तमानस्य सो ऽयं पृथग्वर्त्मा वायुः ।
तस्मात्पृथग्वर्त्मात्मनो वैश्वानरस्योपासनात्पृथङ्नानादिक्कास्त्वां बलयो वस्रान्नादिलक्षणा बलय आयन्त्यागच्छन्ति ।
पृथग्रथश्रेणयो रथपङ्क्तयो ऽपि त्वामनुयन्ति ॥1 ॥
स्तर्त् छुप् 5,14.2
अत्स्य् अन्नं पश्यसि प्रियम् ।
अत्त्य् अन्नं पश्यति प्रियं भवत्य् अस्य ब्रह्मवर्चसं कुले य एतम् एवम् आत्मानं वैश्वानरम् उपास्ते ।
प्राणस् त्व् एष आत्मन इति होवाच ।
प्राणस् त उदक्रमिष्यद् यन् मां नागमिष्य इति
मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0