छान्दोग्योपनिषद (टीका सहित) · अध्याय 5.15
छुप्भ्_5,14.2 अत्स्यन्नमित्यादि समानम् ।
प्रणस्त्वेष आत्मन इति होवाच प्राणस्ते तवोदक्रमिष्यदुत्क्रान्तो ऽभविष्यद्यन्मां नाऽगमिष्य इति ॥2॥
इति च्छान्दोग्योपनिषदि पञ्चमाध्यायस्य चतुर्दशः खण्डः
=======================================================================
स्तर्त् छुप् 5,15.1
अथ होवाच जनं शार्कराक्ष्यम् ।
शार्कराक्ष्य कं त्वम् आत्मानम् उपास्स इति ।
आकाशम् एव भगवो राजन्न् इति होवाच ।
एष वै बहुल आत्मा वैश्वानरो यं त्वम् आत्मानम् उपस्से ।
तस्मात् त्वं बहुलो ऽसि प्रजया च धनेन च
छुप्भ्_5,15.1 अथ होवाच जनमित्यादि समानम् ।
एष वै बहुल आत्मा वैश्वानरः ।
बहुलत्वमाकाशस्य सर्वगतत्वात् ।
बहुलगुणोपासनाच्च त्वं बहुलो ऽसि प्रजया च पुत्रपौत्रादिलक्षणया धनेन च हिरण्यादिना ॥1 ॥
स्तर्त् छुप् 5,15.2
अत्स्य् अन्नं पश्यसि प्रियम् ।
अत्त्य् अन्नं पश्यति प्रियं भवत्य् अस्य ब्रह्मवर्चसं कुले य एतम् एवम् आत्मानं वैश्वानरम् उपास्ते ।
संदेहस् त्व् एष आत्मन इति होवाच ।
संदेहस् ते व्यशीर्यद् यन् मां नागमिष्य इति
मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0