भाषा

ENहिગુ
ग्रंथ पाठ

छान्दोग्योपनिषद (टीका सहित) · अध्याय 4.13

4.13.1

छुप्भ्_4,12.1,2 अथ हैनमन्वाहार्यपचनो ऽनुशशास दक्षिणाग्निरापो दिशो नक्षत्राणि चन्द्रमा इत्येता मम चतस्रस्तनवश्चतुर्धाहमन्वाहार्यपचन आत्मानं प्रविभज्यावस्थितः तत्र य एष चन्द्रमसि पुरुषो दृश्यते सो ऽहमस्मि स एवाहमस्मीति पूर्ववत् ।
अन्नसम्बन्धाज्ज्योतिष्ट्वसामान्याच्चान्वाहार्यपचनचन्द्रमसोरेकत्वन्दक्षिणा(ण) दिक्सम्बन्धाच्च ।
अपां नक्षत्राणां च पूर्ववदन्नत्वेनैव सम्बन्धः ।
नक्षत्राणां चन्द्रमसो भोग्यत्वप्रसिद्धेः ।
अपान्नोत्पादकत्वादन्नत्वं दक्षिणाग्नेः पृथिवीवद्गार्हपत्यस्य ।
समानमन्यत् ॥1-2 ॥
इति च्छान्दोग्योपनिषदि चतुर्थाध्यायस्य द्वादशः खण्डः
=======================================================================
स्तर्त् छुप् 4,13.1
अथ हैनम् आहवनीयो ऽनुशशास प्राण आकाशो द्यौर् विद्युद् इति ।
य एष विद्युति पुरुषो दृश्यते सो ऽहम् अस्मि स एवाहम् अस्मीति

4.13.2

स य एतम् एवं विद्वान् उपास्ते ।
अपहते पापकृत्याम् ।
लोकी भवति ।
सर्वम् अयुर् एति ।
ज्योग् जीवति ।
नास्यावरपुरुषाः क्षीयन्ते ।
उप वयं तं भुञ्जामो ऽस्मिंश् च लोके ऽमुष्मिंश् च ।
य एतम् एवं विद्वान् उपास्ते

मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc