छान्दोग्योपनिषद (टीका सहित) · अध्याय 3.4
छुप्भ्_3.3.1-3 अथ ये ऽस्य प्रत्यश्चो रश्मय इत्यादि समानम् ।
तथा साम्नां मधु ।
एतदादित्यस्य कृष्णं रूपम् ॥1-3 ॥
इति छान्दोग्योपनिषदि तृतीयाध्यायस्य तृतीयः खण्डः
=======================================================================
स्तर्त् छुप् 3,4.1-3
अथ ये ऽस्योदञ्चो रश्मयस् ता एवास्योदीच्यो मधुनाड्यः ।
अथर्वाङ्गिरस एव मधुकृतः ।
इतिहासपुराणं पुष्पम् ।
ता अमृता आपः
ते वा एते ऽथर्वाङ्गिरस एतद् इतिहासपूराणम् अभ्यतपन् ।
तस्याभितप्तस्य यशस् तेज इन्द्रियां वीर्यम् अन्नाद्यं रसो ऽजायत
तद् व्यक्षरत् ।
तद् आदित्यम् अभितो ऽश्रयत् ।
तद् वा एतद् यद् एतद् आदित्यस्य परःकृष्णं रूपम्
मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0