भाषा

ENहिગુ
ग्रंथ पाठ

छान्दोग्योपनिषद (टीका सहित) · अध्याय 3.2

3.2.1

छुप्भ्_3,1.4 यश आद्यन्नाद्यपर्यन्तं तद्व्यक्षरद्विशेषेणाक्षरदगमत् ।
गत्वा च तदादित्यमभितः पार्श्वतः पूर्वभागं सवितुरश्रयदाश्रितवदित्यर्थः ।
अमुष्मिन्नादित्ये सञ्चितं कर्मफलाख्यं मधु भोक्ष्यामह इत्येवं हि यश-आदिलक्षणफलप्राप्तये कर्माणि क्रियन्ते मनुष्यैः केदारनिष्पादनमिव कर्षकैः ।
तत्प्रत्यक्षं प्रदर्श्यते श्रद्धाहेतोस्तद्वा एतत् ।
किं तद्यदेतदादित्यस्योद्यतो दृश्यते रोहितं रूपम् ॥4॥
इति छान्दोग्योपनिषदि तृतीयाध्यायस्य प्रथमः खण्डः
=======================================================================
स्तर्त् छुप् 3,2.1
अथ ये ऽस्य दक्षिणा रश्मयस् ता एवास्य दक्षिणा मधुनाड्यः ।
यजूंष्य् एव मधुकृतः ।
यजुर्वेद एव पुष्पम् ।
ता अमृता आपः

3.2.2

छुप्भ्_3,2.1 अथ ये ऽस्य दक्षिणा रश्मय इत्यादि समानम् ।
यजूं#येव मधुकृतो यजुर्वेदविहिते कर्मणि प्रयुक्तानि ।
पूर्ववन्मधुकृत इव ।
यजुर्वेदविहितं कर्म पुष्पस्थानीयं पुष्पमित्युच्यते ।
ता एव सोमाद्या अमृता आपः ॥1 ॥
स्तर्त् छुप् 3,2.2-3
तानि वा एतानि यजूंष्य् एतं यजुर्वेदम् अभ्यतपन् ।
तस्य अभितप्तस्य यशस् तेज इन्द्रियं वीर्यम् अन्नाद्यं रसो ऽजायत

3.2.3

तद् व्यक्षरत् ।
तद् आदित्यम् अभितो ऽश्रयत् ।
तद् वा एतद् यद् एतद् आदित्यस्य शुक्लं रूपम्

मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc