भाषा

ENहिગુ
ग्रंथ पाठ

छान्दोग्योपनिषद (टीका सहित) · अध्याय 3.1

3.1.1

छुप्भ्_2,24.16 एष ह वै यजमान एवंवित् यथोक्तस्य सामादेर्विद्वान्यज्ञस्य मात्रां यज्ञयाथात्म्यं वेद यथोक्तम् ।
य एवं वेद य एवं वेदेति द्विरुक्तिरध्यायपरिसमाप्त्यर्था ॥16 ॥
इति छान्दोग्योपनिषदि द्वितीयाध्यायस्य चतुर्विंशः खण्डः
इति छान्दोग्योपनिषद्ब्राह्मणे द्वितीयो ऽध्यायः समाप्तः
ओं
अथ तृतीयो ऽध्यायः
स्तर्त् छुप् 3,1.1
असौ वा आदित्यो देवमधु ।
तस्य द्यौर् एव तिरश्चीनवंशः ।
अन्तरिक्षम् अपूपः ।
मरीचयः पुत्राः

3.1.2

छुप्भ्_3,1.1 असौ वा आदित्य उत्याद्यध्यायारम्भे सम्बन्धः ।
अतीतानन्तराध्यायान्त उक्तं यज्ञस्य मात्रां वेदेति यज्ञविषयाणि च सामहोममन्त्रोत्थानानि विशिष्टफलप्राप्तये यज्ञाङ्गभूतान्युपदिष्टानि ।
सर्वयज्ञानां च कार्यनिर्वृत्तिरूपः सविता महत्या श्रिया दीप्यते ।
स एष सर्वप्राणिकर्मफलभूतः प्रत्यक्षं सर्वैरुपजीव्यते ।
अतो यज्ञव्यपदेशानन्तरं तत्कार्यभूतसवितृविषयमुपासनं सर्वपुरुषार्थेभ्यः श्रेष्ठतमफलं विधास्यामीत्येवमारभते श्रुतिः-असौ वा आदित्यो देवमध्वित्यादि ।
देवनां मोदनान्मध्विव मध्वसावादित्यः ।
वस्वादीनां च मोदनहेतुत्वं वक्ष्यति सर्वयज्ञफलरूपत्वादादित्यस्य ।
कथं मधुत्वमित्याह-तस्य मधुनो द्यौरेव भ्रामरस्येव मधुनस्तिरश्चीनश्चासौ वंशश्चेति तिरश्चीनवंशः ।
तिर्यग्गतेव हि द्यौर्लक्ष्यते ।
अन्तरिक्षं च मध्वपूपो द्युवंशे लग्नः सल्लंम्बत इवातो मध्वपूपसामान्यादन्तरिक्षं मध्वपूपो मधुनः सवितुराश्रयत्वाच्च ।
मरीचयो रश्मयो रश्मिस्था आपो भौमाः सवित्राकृष्टाः"एता वा आपः स्वराजो यन्मरीचय"इति इति हि विज्ञायते ।
ता अन्तरिक्षमध्वपूपस्थरश्म्यन्तर्गतत्वाद्भ्रमरबीजभूताः पुत्रा इव हिता लक्ष्यन्त इति पुत्रा इव पुत्रा मध्वपूपनाड्यन्तर्गता हि भ्रमरपुत्राः ॥1 ॥
स्तर्त् छुप् 3,1.2
तस्य ये प्राञ्चो रश्मयस् ता एवास्य प्राच्यो मधुनाड्यः ।
ऋच एव मधुकृतः ।
ऋग्वेद एव पुष्पम् ।
ता अमृता आपः ।
ता वा एता ऋचः

3.1.3

छुप्भ्_3,1.2 तस्य सवितुर्मध्वाश्रयस्य मधुनो ये प्राञ्चः प्राच्यां दिशि गता रश्मयस्ता एवास्य प्राच्यः प्रागञ्चनान्मधुनो नाड्यो मधुनाड्य इव मध्वाधारच्छिद्राणीत्यर्थः ।
तत्र ऋच एव मधुकृतो लोहितरूपं सवित्राश्रयं मधु कुर्वन्तीति मधुकृतो भ्रमरा इव यतो रसानादाय मधु कुर्वन्ति ।
तत्पुष्पमिव पुष्पमृग्वेद एव ।
तत्र ऋग्ब्राह्मणसमुदायस्य ऋग्वेदाख्यत्वाच्छब्दमात्राच्च भोग्यरूपरसनिस्रावासम्भवादृग्वेदशब्देनात्र ऋग्वेदविहितं कर्म ।
ततो हि कर्मफलभूतमधुरसनिस्रावसम्भवात् ।
मधुकरैरिव पुष्पस्थानीयादृग्वेदविहितात्कर्मणो ऽप आदाय ऋग्भिर्मधु निर्वर्त्यते ।
कास्ता आप इत्याह-ताः कर्मणि प्रयुक्ताः सोमाज्यपयोरूपा अग्नौ प्रक्षिप्तास्तत्पाकाभिनिर्वृत्ता अमृता अमृतार्थत्वादत्यन्त रसवत्य आपो भवन्ति ।
तद्रसानादाय ता वा एता ॠचः पुष्पेभ्यो रसमाददाना एव भ्रमराः ऋचः ॥2 ॥
स्तर्त् छुप् 3,1.3
एतम् ऋग्वेदम् अभ्यतपन् ।
तस्याभितप्तस्य यशस् तेज इन्द्रियं वीर्यम् अन्नाद्यं रसो ऽजायत

3.1.4

छुप्भ्_3,1.3 एतमृग्वेदमृग्वेदविहितं कर्म पुष्पस्थानीयमभ्यतपन्नभितापं कृतवत्य इवैता ऋचः कर्मणि प्रयुक्ताः ।
ॠग्भिर्हि मन्त्रैः शस्राद्यङ्गभावमुपगतैः क्रियमाणं कर्म मधुनिर्वर्तकं रसं मुञ्चतीत्युपपद्यते पुष्पाणीव भ्रमरैराचूष्यमाणानि ।
तदेतदाह-तस्यर्ग्वेदस्याभितप्तस्य ।
को ऽसौ रसो य ऋङ्मधुकराभितापनिःसृत इत्युच्यते ।
यशो विश्रुतत्वं तेजो देहगता दीप्तिरिन्द्रियं सामर्थ्योपेतैरिन्द्रियैरवैकल्यं वीर्यं सामर्थ्यं बलमित्यर्थः ।
अन्नाद्यमन्नं च तदाद्यं च येनोपयुज्यमानेनाहन्यहनि देवानां स्थितिः स्यात्तदन्नाद्यमेष रसो ऽजायत यागादिलक्षणात्कर्मणः ॥3 ॥
स्तर्त् छुप् 3,1.4
तद् व्यक्षरत् ।
तद् आदित्यम् अभितो ऽश्रयत् ।
तद् वा एतद् यद् एतद् आदित्यस्य रोहितं रूपम्

मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc