भाषा

ENहिગુ
ग्रंथ पाठ

छान्दोग्योपनिषद (टीका सहित) · अध्याय 3.3

3.3.1

छुप्भ्_3,2.2,3 तानि वा एतानि यजूंष्येतं यजुर्वेदमभ्यतपन्नित्येवमादि सर्वं समानम् ।
मध्वेतदादित्यस्य दृश्यते शुक्लं रूपम् ॥2--3 ॥
इति छान्दोग्योपनिषदि तृतीयाध्यायस्य द्वितीयः खण्डः
=======================================================================
स्तर्त् छुप् 3,3.1-3
अथ ये ऽस्य प्रत्यञ्चो रश्मायस् ता एवास्य प्रतीच्यो मधुनाड्यः ।
सामान्य् एव मधुकृतः ।
सामवेद एव पुष्पम् ।
ता अमृता आपः

3.3.2

तानि वा एतानि सामान्य् एतं सामवेदम् अभ्यतपन् ।
तस्याभितप्तस्य यशस् तेज इन्द्रियं वीर्यम् अन्नाद्यं रसो ऽजायत

3.3.3

तद् व्यक्षरत् ।
तद् आदित्यम् अभितो ऽश्रयत् ।
तद् वा एतद् यद् एतद् आदित्यस्य कृष्णं रूपम्

मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc