छान्दोग्योपनिषद (टीका सहित) · अध्याय 2.24
छुप्भ्_2,23.3 तान्यक्षराण्यभ्यतपत्तेभ्यो ऽभितप्तेभ्य ओङ्कारः सम्प्रास्रवत्तद्ब्रह्म, कीदृशमित्याह-तद्यथा शङ्कुना पर्णनालेन सर्वाणि पर्णानि पत्रावयवजातानि सन्तृण्णानि निविद्धानि व्याप्तानीत्यर्थः ।
एवमोङ्कारेण ब्रह्मणा परमात्मनः प्रतीकभूतेन सर्वा वाक्यशब्दजातं सन्तृण्णा ।
"अकारो वै सर्वा वाक्"इत्यादिश्रुतेः ।
परमात्मविकारश्च नामधेयमात्रमित्यत ओङ्कार एवेदं सर्वमिति ।
द्विरभ्यास आदरार्थः ।
लोकादिनिष्पादनकथनमोङ्कारस्तुत्यर्थमिति ॥3॥
इति छान्दोग्योपनिषदि द्वितीयाध्यायस्य त्रयोविंशः खण्डः
=======================================================================
स्तर्त् छुप् 2,24.1
ब्रह्मवादिनो वदन्ति ।
यद् वसूनां प्रातःसवनम् ।
रुद्राणां माध्यंदिनं सवनम् ।
आदित्यानां च विश्वेषां च देवानां तृतीयसवनम्
छुप्भ्_2,24.1 सामोपासनप्रसङ्गेन कर्मगुणभूतत्वान्निवर्त्योङ्कारं परमात्मप्रतीकत्वादमृतत्वहेतुत्वेन महीकृत्य प्रकृतस्यैव यज्ञस्याङ्गभूतानि सामहोममन्त्रोत्थानान्युपदिदिक्षन्नाह-ब्रह्मवादिनो वदन्ति यत्प्रातःसवनं तद्वसूनाम् ।
तैश्च प्रातः सवनसम्बद्धो ऽयं लोको वशीकृतः सवनेशानैः ।
तथा रुद्रैर्माध्यन्दिनसवनेशानैरन्तरिक्षलोकः ।
आदित्यैश्च विश्वैर्देवैश्च तृतीयसवनेशानैस्तृतीयो लोको वशीकृतः ।
इति यजमानस्य लोको ऽन्यः परिशिष्टो न विद्यते ॥1 ॥
स्तर्त् छुप् 2,24.2
क्व तर्हि यजमानस्य लोक इति ।
स यस् तं न विद्यात् कथं कुर्यात् ।
अथ विद्वान् कुर्यात्
छुप्भ्_2,24.2 अतः क्व तर्हि यजमानस्य लोको यदर्थं यजते ।
न क्वचिल्लोको ऽस्तीत्यभिप्रायः ।
"लोकाय वै यजते यो यजते"इति श्रुतेः ।
लोकाभावे च स यो यजमानस्तं लोकस्वीकरणोपायं सामहोममन्त्रोत्थानलक्षणं न विद्यान्न विजानीयात्सो ऽज्ञः कथं कुर्याद्यज्ञं न कथञ्चन तस्य कर्तृत्वमुपपद्यत इत्यर्थः ।
सामादिविज्ञानस्तुतिपरत्वान्नाविदुषः कर्तृत्वं कर्ममात्रविदः प्रतिषिध्यते ।
स्तुतये च सामादिविज्ञानस्याविद्वत्कर्तृत्वप्रतिषेधाय चेति हि भिद्यते वाक्यम् ।
आद्ये चौषस्त्ये काण्डे ऽविदुषो ऽपि कर्मास्तीति हेतुमवोचाम ।
अथैतद्वक्ष्यमाणं सामाद्युपायं विद्वान्कुर्यात् ॥2॥
स्तर्त् छुप् 2,24.3
पुरा प्रातरनुवाकस्योपाकरणाज् जघनेन गार्हपत्यस्योदाङ्मुख उपविश्य स वासवं सामाभिगायति
छुप्भ्_2,24.3 किं तद्वेद्यमित्याह-पुरा पूर्वं प्रातरनुवाकस्य शस्रस्य प्रारम्भाज्जघनेन गार्हपत्यस्य पश्चादुदङ्मुखः सन्नुपविश्य स वासवं वसुदैवत्यं सामाभिगायति ॥3 ॥
स्तर्त् छुप् 2,24.4
लो 3 कद्वारम् अपावा 3 र्णू 33 ।
पश्येम त्वा वयं रा 33333 हु 3 म् आ 33 ज्या 3 यो 3 आ 32111 इति
छुप्भ्_2,24.4 लोकद्वारमस्य पृथिवीलोकस्य प्राप्तये द्वारमपावृणु हे ऽग्ने तेन द्वारेण पश्येम त्वा त्वां राज्यायेति ॥4 ॥
स्तर्त् छुप् 2,24.5
अथ जुहोति ।
नमो ऽग्नये पृथिवीक्षिते लोकक्षिते ।
लोकं मे यजमानाय विन्द ।
एष वै यजमानस्य लोकः ।
एता अस्मि
छुप्भ्_2,24.5 अथानन्तरं जुहोत्यनेन मन्त्रेण नमो ऽग्नये प्रह्वीभूतास्तुभ्यं वयं पृथिवीक्षिते पृथिवीनिवासाय लोकक्षिते पृथिवीलोकनिवासायेत्यर्थः ।
लोकं मे मह्यं यजमानाय विन्द लभस्व ।
एष वै मम यजमानस्य लोक एता गन्तास्मि ॥5 ॥
स्तर्त् छुप् 2,24.6
अत्र यजमानः परस्ताद् आयुषः स्वाहा ।
अपजहि परिघम् इत्य् उक्त्वोत्तिष्ठति ।
तस्मै वसवः प्रातःसवनं संप्रयच्छन्ति
छुप्भ्_2,24.6 अत्रास्मिंल्लोके यजमानो ऽहमायुषः परस्तादूर्ध्वं मृतः सन्नित्यर्थः ।
स्वाहोति जुहोति ।
अपजह्यपनय परिघं लोकद्वारार्गलमित्येवं मन्त्रमुक्त्वोत्तिष्ठति एवमेतैर्वसुभ्यः प्रातः सवनसम्बद्धो लोको निष्क्रीतः स्यात्ततस्ते प्रातःसवनं धसवो यजमानाय सम्प्रयच्छन्ति ॥6 ॥
स्तर्त् छुप् 2,24.7-8
पुरा माध्यन्दिनस्य सवनस्योपाकरणाज् जघनेनाग्नीध्रीयस्योदङ्मुख उपविश्य स रौद्रं सामाभिगायति
लो 3 कद्वारमपावार् 3 णू 33 ।
पश्येम त्वा वयं वैरा 33333 हु 3 म् आ 33 ज्या 3 यो 3 आ 32111 इति
छुप्भ्_2,24.7,8 तथाऽग्नीध्रीयस्य दक्षिणाग्नेर्जघनेनोदङ्मुख उपविश्य स रौद्रं सामाभिगायति यजमानो रुद्रदैवत्यंवैराज्याय ॥7-8 ॥
स्तर्त् छुप् 2,24.9-10
अथ जुहोति ।
नामो वायवे ऽन्तरिक्षक्षिते लोकक्षिते ।
लोकं मे यजमानाय विन्द ।
एष वै यजमानस्य लोकः ।
एतास्मि
अत्र यजमानः परस्ताद् आयुषः स्वाहा ।
अपजहि परिघम् इत्य् उक्त्वोत्तिष्ठति ।
तस्मै रुद्रा माध्यन्दिनं सवनं संप्रयच्छन्ति
छुप्भ्_2,24.9.10 अन्तरिक्षक्षित इत्यादि समानम् ॥9॥
स्तर्त् छुप् 2,24.11-13
पुरा तृतीयसवनस्योपाकरणाज् जघनेनाहवनीयस्योदङ्मुख उपविश्य स आदित्यं स वैश्वदेवं सामाभिगायति
लो 3 कद्वारमपावा 3 र्णू33 ।
पश्येम त्वा वयं स्वारा 33333 हु3म्, आ 33 ज्या 3 यो 3 आ 32111 इत्य् आदित्यम्
अथ वैश्वदेवम् ।
लो3कद्वारमपावा3र्णू33 ।
पश्येम त्वा वयं साम्रा 33333 हु3म् आ 33 ज्या 3 यो 3 आ 32111 इति
छुप्भ्_2,24.11-13 तथाऽहवनीयस्योदङ्मुख उपविश्य स आदित्यदैवत्यमादित्यं वैश्वदेवं च सामाभिगायति क्रमेण स्वाराज्याय साम्राज्याय ॥11-13 ॥
स्तर्त् छुप् 2,24.14-15
अथ जुहोति ।
नम आदित्येभ्यश् च विश्वेभ्यश् च देवेभ्यो दिविक्षिद्भ्यो लोकक्षिद्भ्यः ।
लोकं मे यजमानाय विन्दत
एष वै यजमानस्य लोकः ।
एतास्म्य् अत्र यजमानः परस्ताद् आयुषः स्वाहा ।
अपहत परिघम् इत्य् उक्त्वोत्तिष्ठति
छुप्भ्_2,24.14-15 दिविक्षिद्भ्य इत्येवमादि समानमन्यत् ।
विन्दतापहतेति बहिवचनमात्रं विशेषः ।
याजमानं त्वेतत् ।
एतास्म्यत्र यजमान इत्यादिलिङ्गात् ॥14-15 ॥
स्तर्त् छुप् 2,24.16
तस्मा आदित्याश् च विश्वे च देवास् तृतीयसवनं संप्रयच्छन्ति ।
एष ह वै यज्ञस्य मात्रां वेद य एवं वेद य एवं वेद
मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0