छान्दोग्योपनिषद (टीका सहित) · अध्याय 2.7
छुप्भ्_2,6.2 फलं-भवन्ति हास्य पशवः पशुमान्भवति ।
पशुफलैश्च भोगत्यागादिभिर्युज्यत इत्यर्थः ॥2॥
इति छान्दोग्योपनिषदि द्वितीयाध्यायस्य षष्ठः खण्डः
=======================================================================
स्तर्त् छुप् 2,7.1
प्राणेषु पञ्चविधं परोवरीयः सामोपासीत ।
प्राणो हिङ्कारः ।
वाक् प्रस्तावः ।
चक्षुर् उद्गीथः ।
श्रोत्रं प्रतिहारः ।
मनो निधनम् ।
परोवरीयांसि वा एतानि
छुप्भ्_2,7.1 प्राणेषु पञ्चविधं परोवरीयः सामोपासीत ।
परंपरं वरीयस्त्वगुणवत्प्राणदृष्टिविशिष्टं सामोपासीतेत्यर्थः ।
प्राणो घ्राणं हिङ्कारः ।
उत्तरोत्तरवरीयसां प्राथम्यात् ।
वाक्प्रस्तावः ।
वाचा हि प्रस्तूयते सर्वम् ।
वाग्वरीयसी प्राणात् ।
अप्राप्तमप्युच्यते वाचा, प्राप्तस्यैव तु गन्धस्य ग्राहकः प्राणः ।
चक्षुरुद्गीथः ।
वाचो बहुतरविषयं प्रकाशयति चक्षुरतो वरीयो वाचः, उद्गीथः ।
श्रैष्ठ्यात् ।
श्रोत्रं प्रतिहारः ।
प्रतिहृतत्वात् ।
वरीयस्त्वं च श्रोत्रान्मनसः ।
सर्वेन्द्रियविषयव्यापकत्वात् ।
अतीन्द्रियविषयो ऽपि मनसो गोचर एवेति ।
यथोक्तहेतुभ्यः परोवरीयांसि प्राणादीनि वा एतानि ॥1 ॥
स्तर्त् छुप् 2,7.2
परोवरीयो हास्य भवति परोवरीयसो ह लोकाञ् जयति य एतद् एवं विद्वान् प्राणेषु पञ्चविधं परोवरीयः सामोपास्ते ।
इति तु पञ्चविधस्य
मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0