भाषा

ENहिગુ
ग्रंथ पाठ

छान्दोग्योपनिषद (टीका सहित) · अध्याय 2.6

2.6.1

छुप्भ्_2,5.2 फलं-कल्पन्ते ह ऋतुव्यवस्थानुरूपं भोग्यत्वेनास्मा उपासकायर्तवः ।
ऋतुमानार्तवैर्भोगैश्च सम्पन्नो भवतीत्यर्थः ॥2॥
इति छान्दोग्योपनिषदि द्वितीयाध्यायस्य पञ्चमः खण्डः
=======================================================================
स्तर्त् छुप् 2,6.1
पशुषु पञ्चविधं सामोपासीत ।
अजा हिङ्कारः ।
अवयः प्रस्तावः ।
गाव उद्गीथः ।
अश्वः प्रतिहारः ।
पुरुषो निधनम्

2.6.2

छुप्भ्_2,6.1 पशुषु पञ्चविधं सामोपासीत ।
सम्यग्वृत्तेष्वृतुषु पशव्यः काल इत्यानन्तर्यम् ।
अजा हिङ्कारः ।
प्राधान्यात् प्राथम्याद्वा ।
"अजः पशूनां प्रथम"इति श्रुतेः ।
अवयः प्रस्तावः ।
साहचर्यदर्शनादजादीनाम् ।
गावः उद्गीथः ।
श्रैष्ठ्यात् ।
अश्वाः प्रतिहारः ।
प्रतिहरणात्पुरुशाणाम् ।
पुरुषो निधनम् ।
पुरुषाश्रयत्वात्पशूनाम् ॥1 ॥
स्तर्त् छुप् 2,6.2
भवन्ति हास्य पशवः पशुमान् भवति य एतद् एवं विद्वान् पशुषु पञ्चविधं सामोपास्ते

मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc