छान्दोग्योपनिषद (टीका सहित) · अध्याय 2.5
छुप्भ्_2,4.2 न हाप्सु प्रैति ।
नेच्छति चेत् ।
अप्सुमानंमान्भवति फलम् ॥2॥
इति छान्दोग्योपनिषदि द्वितीयाध्यायस्य चतुर्थः खण्डः
=======================================================================
स्तर्त् छुप् 2,5.1
ऋतुषु पञ्चविधं सामोपासीत ।
वसन्तो हिङ्कारः ।
ग्रीष्मः प्रस्तावः ।
वर्षा उद्गीथः ।
शरत् प्रतिहारः ।
हेमन्तो निधनम्
छुप्भ्_2,5.1 ॠतुषु पञ्चविधं सामोपासीत ।
ॠतुव्यवस्थाया यथोक्ताम्बुनिमित्तत्वादानन्तर्यम् ।
वसन्तो हिङ्कारः ।
प्राथम्यात् ।
ग्रीष्मः प्रस्तावः ।
यवादिसंग्रहः प्रस्तूयते हि प्रावृडर्थम् ।
वर्षा उद्गीथः प्राधान्यात् ।
शरत्प्रतिहारः ।
रोगिणां मृतानां च प्रतिहरणात् ।
हेमन्तो निधनम् ।
निवाते निधनात्प्राणिनाम् ॥1 ॥
स्तर्त् छुप् 2,5.2
कल्पन्ते हास्मा ऋतव ऋतुमान् भवति य एतद् एवं विद्वान् ऋतुषु पञ्चविधं सामोपास्ते
मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0