छान्दोग्योपनिषद (टीका सहित) · अध्याय 2.4
छुप्भ्_2,3.2 उद्गृह्णाति तन्निधनम् ।
समाप्तिसामान्यात् ।
फलमुपासनस्य-वर्शति हास्मा इच्छातः ।
तथा वर्षयति हासत्यामपि वृष्टौ ।
य एतदित्यादि पूर्ववत् ॥2॥
इति छान्दोग्योपनिषदि द्वितीयाध्यायस्य तृतीयः खण्डः
=======================================================================
स्तर्त् छुप् 2,4.1
सर्वास्व् अप्सु पञ्चविधं सामोपासीत ।
मेघो यत् संप्लवते स हिङ्कारः ।
यद् वर्षति स प्रस्तावः ।
याः प्राच्यः स्यन्दन्ते स उद्गीथः ।
याः प्रतीच्यः स प्रतिहारः ।
समुद्रो निधनम्
छुप्भ्_2,4.1 सर्वास्वप्सु पञ्चविधं सामोपासीत ।
वृष्टिपूर्वकत्वात्सर्वासामपामानन्तर्यम् ।
मेघो यत्संप्लवत एकीभावेनेतरेतरं घनीभवति मेघो यदोन्नतस्तदा संप्लवत इत्युच्यते मेघस्तदापामारम्भः स हिङ्कारः ।
यद्वर्षति स प्रस्तावः ।
आपः सर्वतो व्याप्तुं प्रस्तुताः ।
याः प्राच्यः स्यन्दन्ते स उद्गीथः श्रैष्ठ्यात् ।
याः प्रतीच्यः स प्रतिहारः प्रतिशब्दसामान्यात् ।
समुद्रो निधनम् ।
तन्निधनत्वादपाम् ॥1 ॥
स्तर्त् छुप् 2,4.2
न हाप्सु प्रैत्य् अप्सुमान् भवति य एतद् एवं विद्वान् सर्वास्व् अप्सु पञ्चविधं सामोपास्ते
मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0