भाषा

ENहिગુ
ग्रंथ पाठ

छान्दोग्योपनिषद (टीका सहित) · अध्याय 2.19

2.19.1

छुप्भ्_2,18.2 पशून्न निन्देत्तद्व्रतम् ॥2॥
इति छान्दोग्योपनिषदि द्वितीयाध्यायस्यस्याष्टादशः खण्डः
=======================================================================
स्तर्त् छुप् 2,19.1
लोम हिङ्कारः ।
त्वक् प्रस्तावः ।
मांसम् उद्गीथः ।
अस्थि प्रतिहारः ।
मज्जा निधनम् ।
एतद् यज्ञायज्ञीयम् अङ्गेषु प्रोतम्

2.19.2

छुप्भ्_2,19.1 लोम हिङ्कारो देहावयवानां प्राथम्यात् ।
त्वक्प्रस्ताव आनन्तर्यात् ।
मांसमुद्गीथः श्रैष्ठ्यात् ।
अस्थि प्रतिहारः प्रतिहृतत्वात् ।
मज्जा निधनमान्त्यात् ।
एतद्यज्ञायज्ञीयं नाम साम देहावयववेषु प्रोतम् ॥1 ॥
स्तर्त् छुप् 2,19.2
स य एवम् एतद् यज्ञायज्ञीयम् अङ्गेषु प्रोतं वेद ।
अङ्गी भवति ।
नाङ्गेन विहूर्छति ।
सर्वम् आयुर् एति ।
ज्योग् जीवति ।
महान् प्रजया पशुभिर् भवति ।
महान् कीर्त्या ।
संवत्सरं मज्ज्ञो नाश्नीयात् ।
तद् व्रतम् ।
मज्ज्ञो नाश्नीयाद् इति वा

मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc