भाषा

ENहिગુ
ग्रंथ पाठ

छान्दोग्योपनिषद (टीका सहित) · अध्याय 2.13

2.13.1

छुप्भ्_2,12.2 स य इत्यादि पूर्ववत् ।
ब्रह्मवर्चसी वृत्तस्वाध्यायनिमित्तं तेजो ब्रह्मवर्तसम् ।
तेजस्तु केवलं त्विड्भावः ।
अन्नादो दीप्ताग्निः ।
न प्रत्यङ्ङग्नेरभिमुखो नाऽचामेन्न भक्षयेत्किञ्चिन्न निष्ठीवेच्छ्लेष्मनिरसनं च न कुर्यात्तद्व्रतम् ॥2॥
इति छान्दोग्योपनिषदि द्वितीयाध्यायस्य द्वादशः खण्डः
=======================================================================
स्तर्त् छुप् 2,13.1
उपमन्त्रयते स हिङ्कारः ।
ज्ञपयते स प्रस्तावः ।
स्त्रिया सह शेते स उद्गीथः ।
प्रति स्त्रीं सह शेते स प्रतिहारः ।
कालं गच्छति तन् निधनम् ।
पारं गच्छति तन् निधनम् ।
एतद् वामदेव्यं मिथुने प्रोतम्

2.13.2

छुप्भ्_2,13.1 उपमन्त्रयते सङ्केतं करोति प्राथम्यात्स हिङ्कारः ।
ज्ञपयते तोषयति स प्रस्तावः ।
सहशयनमेकपर्यङ्कगमनं स उद्गीथः श्रैष्ठ्यात् ।
प्रति स्रीं शयनं स्रिया अभिमुखीभावः स प्रतिहारः ।
कालं गच्छति मैथुनेन पारं समाप्तिं गच्छति तन्निधनमेतद्वामदेव्यं मिथुने प्रोतम् ।
वाय्वम्बुमिथुनसम्बन्धात् ॥1 ॥
स्तर्त् छुप् 2,13.2
स य एवम् एतद् वामदेव्यं मिथुने प्रोतं वेद ।
मिथुनी भवति ।
मिथुनान् मिथुनात् प्रजायते ।
सर्वम् आयुर् एति ।
ज्योग् जीवति ।
महान् प्रजया पशुभिर् भवति ।
महान् कीर्त्या ।
न कांचन परिहरेत् ।
तद् व्रतम्

मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc