भाषा

ENहिગુ
ग्रंथ पाठ

छान्दोग्योपनिषद (टीका सहित) · अध्याय 2.14

2.14.1

छुप्भ्_2,13.2 स य इत्यादि पूर्ववत् ।
मिथुनी भवत्यविधुरो भवतीत्यर्थः ।
मिथुनान्मिथुनात्प्रजायत इत्यमोघरेतस्त्वमुच्यते ।
न काञ्चन काञ्चिदपि स्रियं स्वात्मतल्पप्राप्तां न परिहरेत्समागमार्थिनीम् ।
वामदेव्यसामोपासनाङ्गत्वेन विधानात् एतस्मादन्यत्र प्रतिषेधस्मृतयः वचनप्रामाण्याच्च धर्मावगतेर्न प्रतिषेधशास्रेणास्य विरोधः ॥2॥
इति छान्दोग्योपनिषदि द्वितीयाध्यायस्य त्र्योदशः खण्डः
=======================================================================
स्तर्त् छुप् 2,14.1
उद्यन् हिङ्कारः ।
उदितः प्रस्तावः ।
मध्यंदिन उद्गीथः ।
अपराह्णः प्रतिहारः ।
अस्तं यन् निधनम् ।
एतद् बृहद् आदित्ये प्रोतम्

2.14.2

छुप्भ्_2,14.1 उद्यन्सविता स हिङ्कारः प्राथम्याद्दर्शनस्य ।
उदितः प्रस्तावः प्रस्तवनहेतुत्वात्कर्मणाम् ।
मध्यन्दिन उद्गीथः श्रैष्ठ्यात् ।
अपराह्नः प्रतिहारः पश्वादीनां गृहान्प्रति हरणात् ।
यदस्तं यंस्तन्निधनं रात्रौ गृहे निधानात्प्राणिनाम् ।
एतद्बृहदादित्ये प्रोतं बृहत आदित्यदैवत्यत्वात् ॥1 ॥
स्तर्त् छुप् 2,14.2
स य एवम् एतद् बृहद् आदित्ये प्रोतं वेद ।
तेजस्व्य्: अन्नादो भवति ।
सर्वम् आयुर् एति ।
ज्योग् जीवति ।
महान् प्रजया पशुभिर् भवति ।
महान् कीर्त्या ।
तपन्तं न निन्देत् ।
तद् व्रतम्

मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc