भाषा

ENहिગુ
ग्रंथ पाठ

छान्दोग्योपनिषद (टीका सहित) · अध्याय 2.12

2.12.1

छुप्भ्_2,11.2 स य एवमेतद्गायत्रं प्राणेषु प्रोतं वेद प्राणी भवति ।
अविकलकरणो भवतीत्येतत् ।
सर्वमायुरेति ।
शतं वर्षणि सर्वमायुः पुरुषस्येति श्रुतेः ।
ज्योगुज्ज्वलं जीवति ।
महान्भवति प्रजादिभिर्महांश्च कीर्त्या ।
गायत्रोपासकस्यैतद्व्रतं भवति यन्महामनास्त्वक्षुद्रचित्तः स्यादित्यर्थः ॥2॥
इति छान्दोग्योपनिषदि द्वितीयाध्यायस्यैकादशः खण्डः
=======================================================================
स्तर्त् छुप् 2,12.1
अभिमन्थति स हिङ्कारः ।
धूमो जायते स प्रस्तावः ।
ज्वलति स उद्गीथः ।
अङ्गारा भवन्ति स प्रतिहारः ।
उपशाम्यति तन् निधनम् ।
संशाम्यति तन् निधनम् ।
एतद् रथंतरम् अग्नौ प्रोतम्

2.12.2

छुप्भ्_2,12.1 अभिमन्थति स हिङ्कारः प्राथम्यात् ।
अग्नेर्धूमो जायते स प्रस्ताव आनन्तर्यात् ।
ज्वलति स उद्गीथो हविः सम्बन्धाच्छ्रैष्ठ्यं ज्वलनस्य ।
अङ्गारा भवन्ति स प्रतिहारो ऽङ्गाराणां प्रतिहृतत्वात् ।
उपशमः सावशेषत्वादग्नेः ।
संशमो निःशेषोपशमः समाप्तिसामान्यान्निधनमेतद्रथन्तर मग्नौ प्रोतम् ।
मन्थने ह्यग्नेर्गीयते ॥1 ॥
स्तर्त् छुप् 2,12.2
स य एवम् एतद् रथंतरम् अग्नौ प्रोतं वेद ।
ब्रह्मवर्चस्य्: अन्नादो भवति ।
सर्वम् आयुर् एति ।
ज्योग् जीवति ।
महान् प्रजया पशुभिर् भवति ।
महान् कीर्त्या ।
न प्रत्यङ्ङ् अग्निम् आचामेन् न निष्ठीवेत् ।
तद् व्रतम्

मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc