चौरपञ्चाशिका · श्लोक 21-40
अद्यापि तां चाटुशतदुर्ललितोचितार्थं तस्याः स्मरामि सुरतक्लमविह्वलायाः
अव्यक्तनिःस्वनितकातरकथ्यमान संकीर्णवर्णरुचिरं वचनं प्रियायाः ॥
अद्यापि तां सुरतघूर्णनिमीलिताक्षीं स्रस्ताङ्गयष्टिगलितांशुककेशपाशाम्
शृङ्गारवारिरुहकाननराजहंसीं जन्मान्तरे ऽपि निधने ऽप्य् अनुचिन्तयामि ॥
अद्यापि तां प्रणयिनीं मृगशावकाक्षीं पीयूषपुर्णकुचकुम्भयुगं वहन्तीम्
पश्याम्य् अहं यदि पुनर् दिवसावसाने स्वर्गापवर्गनरराजसुखं त्यजामि ॥
अद्यापि तां क्षितितले वरकामिनीनां सर्वाङ्गसुन्दरतया प्रथमैकरेखाम्
शृङ्गारनाटकरसोत्तमपानपात्रीं कान्तां स्मरामि कुसुमायुधबाणखिन्नाम् ॥
अद्यापि तां स्तिमितवस्त्रम् इवाङ्गलग्नां प्रौढप्रतापमदनानलतप्तदेहम्
बालाम् अनाथशरणाम् अनुकम्पनीयां प्राणाधिकां क्षणम् अहं न हि विस्मरामि ॥
अद्यापि तां प्रथमतो वरसुन्दरीणां स्नेहैकपात्रघटिताम् अवनीशपुत्रीम्
हंहोजना मम वियोगहुताशनो ऽयं सोढुं न शक्यतेति प्रतिचिन्तयामि ॥
अद्यापि विस्मयकरीं त्रिदशान् विहाय बुद्धिर् बलाच् चलति मे किम् अहं करोमि
जानन्न् अपि प्रतिमुहूर्तम् इहान्तकाले कान्तेति वल्लभतरेति ममेति धीरा ॥
अद्यापि तां गमनम् इत्य् उदितं मदीयं श्रुत्वैव भीरुहरिणीम् इव चञ्चलाक्षीम्
वाचः स्खलद्विगलदाश्रुजलाकुलाक्षीं संचिन्तयामि गुरुशोकविनम्रवक्त्राम् ॥
अद्यापि तां सुनिपुणं यतता मयापि दृष्टं न यत् सदृशतोवदनं कदाचित्
सौन्दर्यनिर्जितरति द्विजराजकान्ति कान्ताम् इहातिविमलत्वमहागुणेन ॥
अद्यापि तां क्षणवियोगविषोपमेयां सङ्गे पुनर् बहुतराम् अमृताभिषेकाम्
तां जीवधारणकरीं मदनातपत्राम् उद्वत्तकेशनिवहां सुदतीं स्मरामि ॥
अद्यापि वासगृहतो मयि नीयमने दुर्वारभीषणकरैर् यमदूतकल्पैर्
किं किं तया बहुविधं न कृतं मदर्थे वक्तुं न पार्यतेति व्यथते मनो मे ॥
अद्यापि मे निशि दिवा हृदयं दुनोति पूर्णेन्दुसुन्दरमुखं मम वल्लभायाः
लावण्यनिर्जितरतिक्षतिकामदर्पं भूयः पुरः प्रतिपदं न विलोक्यते यत् ॥
अद्यापि ताम् अवहितां मनसाचलेन संचिन्तयामि युवतीं मम जीविताशाम्
नान्योपभुक्तनवयौवनभारसारां जन्मान्तरे ऽपि मम सैव गतिर् यथा स्यात् ॥
अद्यापि तद्वदनपङ्कजगन्धलुब्ध भ्राम्यद्द्विरेफचयचुम्बितगण्डदेशाम्
लीलावधूतकरपल्लवकङ्कणानां क्वाणो विमूर्च्छति मनः सुतरां मदीयम् ॥
अद्यापि तां नखपदं स्तनमण्डले यद् दत्तं मयास्यमधुपानविमोहितेन
उद्भिन्नरोमपुलकैर् बहुभिः समन्ताज् जागर्ति रक्षति विलोकयति स्मरामि ॥
अद्यापि कोपविमुखीकृतगन्तुकामा नोक्तं वचः प्रतिददाति यदैव वक्त्रम्
चुम्बामि रोदिति भृशं पतितो ऽस्मि पादे दासस् तव प्रियतमे भज मं स्मरामि ॥
अद्यापि धवति मनः किम् अहं करोमि सार्धं सखीभिर् अपि वासगृहं सुकान्ते
कान्ताङ्गसंगपरिहासविचित्रनृत्ये क्रीडाभिरामेति यातु मदीयकालः ॥
अद्यापि तां जगति वर्णयितुं न कश् चिच् छक्नोत्य् अदृष्टसदृशीं च परिग्रहं मे
दृष्टं तयोर् सदृशयोर् खलु येन रूपं शक्तो भवेद् यदि सैव नरो न चान्यः ॥
अद्यापि तां न खलु वेद्मि किम् ईशपत्नी शापं गता सुरपतेर् अथ कृष्णलक्ष्मी
धात्रैव किं नु जगतः परिमोहनाय सा निर्मिता युवतिरत्नदिदृक्षया वा ॥
अद्यापि तन्नयनकज्जलम् उज्ज्वलास्यं विश्रान्तकर्णयुगलं परिहासहेतोर्
पश्ये तवात्मनि नवीनपयोधराभ्यां क्षीणां वपुर् यदि विनश्यति नो न दोषः ॥
मूल पाठ: Caurapañcāśikā · Edition: S.N. Tadpatrikar. Poona : Oriental Book Agency, 1966 (Poona Oriental Series, 86) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0