चौरपञ्चाशिका · श्लोक 1-20
अद्यापि तां कनकचम्पकदामगौरीं फुल्लारविन्दवदनां तनुरोमराजीम्
सुप्तोत्थितां मदनविह्वललालसाङ्गीं विद्यां प्रमादगुणिताम् इव चिन्तयामि ॥
अद्यापि तां शशिमुखीं नवयौवनाढ्यां पीनस्तनीं पुनर् अहं यदि गौरकान्तिम्
पश्यामि मन्मथशरानलपीडिताङ्गीं गात्राणि संप्रति करोमि सुशीतलानि ॥
अद्यापि तां यदि पुनः कमलायताक्षीं पश्यामि पीवरपयोधरभारखिन्नाम्
संपीड्य बाःउयुगलेन पिबामि वक्त्रम् उन्मत्तवन् मधुकरः कमलं यथेष्टम् ॥
अद्यापि तां निधुवनक्लमनिःसहाङ्गीम् आपाण्डुगण्डपतितालककुन्तलालिम्
प्रच्छन्नपापकृतमन्थरम् आवहन्तीं कण्ठावसक्तबाहुलतां स्मरामि ॥
अद्यापि तां सुरतजागरघूर्णमान तिर्यग्वलत्तरलतारकम् आयताक्षीम्
शृङ्गारसारकमलाकरराजहंसीं व्रीडाविनम्रवदनाम् उषसि स्मरामि ॥
अद्यापि तां यदि पुनः श्रवणायताक्षीं पश्यामि दीर्घविरहज्वरिताङ्गयष्टिम्
अङ्गैर् अहं समुपगुह्य ततो ऽतिगाढं नोन्मीलयामि नयने न च तां त्यजामि ॥
अद्यापि तां सुरतताण्डवसूत्रधारीं पूर्णेन्दुसुन्दरमुखीं मदविह्वलाङ्गीम्
तन्वीं विशालजघनस्तनभारनम्रां व्यालोलकुन्तलकलापवतीं स्मरामि ॥
अद्यापि तां मसृणचन्दनपङ्कमिश्र कस्तूरिकापरिमलोत्थविसर्पिगन्धाम्
अन्योन्यचञ्चुपुटचुम्बनलग्नपक्ष्म युग्माभिरामनयनां शयने स्मरामि ॥
अद्यापि तां निधुवने मधुपानरक्ताम् लीलाधरां कृशतनुं चपलायताक्षीम्
काश्मीरपङ्कमृगनाभिकृताङ्गरागां कर्पूरपूगपरिपूर्णमुखीं स्मरामि ॥
अद्यापि तत्+कनकगौरकृताङ्गरागं प्रस्वेदबिन्दुविततं वदनं प्रियायाः
अन्ते स्मरामि रतिखेदविलोलनेत्रं राहूपरागपरिमुक्तम् इवेन्दुबिम्बम् ॥
अद्यापि तन्मनसि संपरिवर्तते मे रात्रौ मयि क्षुतवति क्षितिपालपुत्र्या
जीवेति मङ्गलवचः परिहृत्य कोपात् कर्णे कृतं कनकपत्रम् अनालपन्त्या ॥
अद्यापि तत्+कनककुण्डलघृष्टगण्डम् आस्यं स्मरामि विपरीतरताभियोगे
आन्दोलनश्रमजलस्फुटसान्द्रबिन्दु मुक्ताफलप्रकरविच्छुरितं प्रियायाः ॥
अद्यापि तत्प्रणयभङ्गगुरुदृष्टिपातं तस्याः स्मरामि रतिविभ्रमगात्रभङ्गम्
वस्त्राञ्चलस्खलतचारुपयोधरान्तं दन्तच्छदं दशनखण्डनमण्डनं च ॥
अद्याप्य् अशोकनवपल्लवरक्तहस्तां मुक्ताफलप्रचयचुम्बितचूचुकाग्राम्
अन्तः स्मितोच्छ्वसितपाण्डुरगण्डभित्तिं तां वल्लभामलसहंसगतिं स्मरामि ॥
अद्यापि तत्+कनकरेणुघनोरुदेशे न्यस्तं स्मरामि नखरक्षतलक्ष्म तस्याः
आकृष्टहेमरुचिराम्बरम् उत्थिताया लज्जावशात् करघृतं च ततो व्रजन्त्याः ॥
अद्यापि तां विधृतकज्जललोलनेत्रां पृथ्वीं प्रभूतकुसुमाकुलकेशपाशाम्
सिन्दूरसंलुलितमौक्तिकदन्तकान्तिम् आबद्धहेमकटकां रहसि स्मरामि ॥
अद्यापि तां गलितबन्धनकेशपाशां स्रस्तस्रजं स्मितसुधामधुराधरौष्ठीम्
पीनोन्नतस्तनयुगोपरिचारुचुम्बन्+ मुक्तावलीं रहसि लोलदृशम् स्मरामि ॥
अद्यापि तां धवलवेश्मनि रत्नदीप मालामयूखपटलैर् दलितान्धकारे
प्राप्तोद्यमे रहसि संमुखदर्शनार्थं लज्जाभयार्थनयनाम् अनुचिन्तयामि ॥
अद्यापि तां विरहवह्निनिपीडिताङ्गीं तन्वीं कुरङ्गनयनां सुरतैकपात्रीम्
नानाविचित्रकृतमण्डनम् आवहन्तीं तां राजहंसगमनां सुदतीं स्मरामि ॥
अद्यापि तां विहसितां कुचभारनम्रां मुक्ताकलापधवलीकृतकण्ठदेशाम्
तत्+केलिमन्दरगिरौ कुसुमायुधस्य कान्तां स्मरामि रुचिरोज्ज्वलपुष्पकेतुम् ॥
मूल पाठ: Caurapañcāśikā · Edition: S.N. Tadpatrikar. Poona : Oriental Book Agency, 1966 (Poona Oriental Series, 86) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0