भाषा

ENहिગુ
ग्रंथ पाठ

चौरपञ्चाशिका · श्लोक 41-50

41

अद्यापि निर्मलशरच्छशिगौरकान्ति चेतो मुनेर् अपि हरेत् किम् उतास्मदीयम्
वक्त्रं सुधामयम् अहं यदि तत् प्रपद्ये चुम्बन् पिबाम्य् अविरतं व्यधते मनो मे ॥

42

अद्यापि तत्+कमलरेणुसुगन्धगन्धि तत्प्रेमवारि मकरध्वजपातकारि
प्राप्नोम्य् अहं यदि पुनः सुरतैकतीर्थं प्राणांस् त्यजामी नियतं तदवाप्तिहेतोर् ॥

43

अद्याप्य् अहो जगति सुन्दरलक्षपूर्णे ऽन्यान्यम् उत्तमगुणाधिकसंप्रपन्ने
अन्याभिर् अप्य् उपमितुं न मया च शक्यं रूपं तदीयम् इति मे हृदये वितर्कः ॥

44

अद्यापि सा मम मनस्तटिनी सदास्ते रोमाञ्चवीचिविलसद्विपुलस्वभावा%
कादम्बकेशररुचिः क्षतवीक्षणं मां गात्रक्लमं कथयती प्रियराजहंसी ॥

44x

अद्यापि सा हि नवयौवनसुन्दराङ्गी रोमाञ्चवीचिविलसच्चपलाङ्गयष्टिः
मत्स्वान्तसारसचलद्विरहोच्चपंकात्+ किम्+चिद्गमं प्रथयति प्रियराजहंसी ॥

45

अद्यापि तां नृपती शेखरराजपुत्रीं संपूर्णयौवनमदालसघूर्णनेत्रीम्
गन्धर्वयक्षसुरकिंनरनागकन्यां स्वर्गाद् अहो निपतिताम् इव चिन्तयामि ॥

46

अद्यापि तां निजवपुः+कृशवेदिमध्याम् उत्तुंगसंभृतसुधास्तनकुम्भयुग्माम्
नानाविचित्रकृतमण्डमण्डिताङ्गी सुप्तोत्थितां निशि दिवा न हि विस्मरामि ॥

47

अद्यापि तां कनककान्तिमदालसाङ्गीं व्रीडोत्सुकां निपतिताम् इव चेष्टमानाम्
अगांगसंगपरिचुम्बनजातमोहां तां जीवनौषधिम् इव प्रमदां स्मरामि ॥

48

अद्यापि तत्सुरतकेलिनिरस्त्रयुद्धं बन्धोपबन्धपतनोत्थितशून्यहस्तम्
दन्तौष्ठपीडननखक्षतरक्तसिक्तं तस्या स्मरामि रतिबन्धुरनिष्ठुरत्वम् ॥

49

अद्याप्य् अहं वरवधूसुरतोपभोगं जीवामि नान्यविधिना क्षणम् अन्तरेण
तद् भ्रातरो मरणम् एव हि दुःख शान्त्यै विज्ञापयामि भवतस् त्वरितं लुनीध्वम् ॥

50

अद्यापि नोज्झति हरः किल कालकूटं कूर्मो बिभर्ति धरणीं खलु पृष्टभागे
अम्भोनिधिर् वहति दुःसहवडवाग्निम् अङ्गीकृतं सुकृतिनः परिपालयन्ति ॥

मूल पाठ: Caurapañcāśikā · Edition: S.N. Tadpatrikar. Poona : Oriental Book Agency, 1966 (Poona Oriental Series, 86) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc