Buddhacarita · अध्याय 14
ततो मारबलं जित्वा धैर्येण च शमेन च
परमार्थं विजिज्ञासुः स दध्यौ ध्यानकोविदः ॥
सर्वेषु ध्यानविधिषु प्राप्य चैश्वर्यम् उत्तमम्
सस्मार प्रथमे यामे पूर्वजन्मपरंपराम् ॥
अमुत्राहम् अयं नाम च्युतस् तस्माद् इहागतः
इति जन्मसहस्राणि सस्मारानुभवन्न् इव ॥
स्मृत्वा जन्म च मृत्युं च तासु तासूपपत्तिषु
ततः सत्त्वेषु कारुण्यं चकार करुणात्मकः ॥
कृत्वेह स्वजनोत्सर्गं पुनर् अन्यत्र च क्रियाः
अत्राणः खलु लोको ऽयं परिभ्रमति चक्रवत् ॥
इत्य् एवं स्मरतस् तस्य बभूव नियतात्मनः
कदलीगर्भनिःसारः संसार इति निश्चयः ॥
द्वितीये त्व् आगते यामे सो ऽद्वितीयपराक्रमः
दिव्यं (लेभे च्चक्षुः )परं (चक्षुः च्लेभे सर्वचक्षुष्मतां वरः ॥
ततस् तेन स दिव्येन परिशुद्धेन चक्षुषा
ददर्श निखिलं लोकम् आदर्शए इव निर्मले ॥
सत्त्वानां पश्यतस् तस्य निकृष्टोत्कृष्टकर्मणाम्
प्रच्युतिं चोपपत्तिं च ववृधे करुणात्मता ॥
इमे दुष्कृतकर्माणः प्राणिनो यान्ति दुर्गतिम्
इमे ऽन्ये शुभकर्माणः प्रतिष्ठन्ते त्रिपिष्टपे ॥
उपपन्नाः प्रतिभये नरके भृशदारुणे
अमी दुःखैर् बहुविधैः पीड्यन्ते कृपणं (बत च्वत ) ॥
पाय्यन्ते क्वथितं केचिद् अग्निवर्णम् अयोरसम्
आरोप्यन्ते रुवन्तो ऽन्ये निष्टप्तस्तम्भम् आयसम् ॥
पच्यन्ते पिष्टवत् केचिद् अयस्कुम्भीष्व् अवाङ्मुखाः
दह्यन्ते करुणं केचिद् दीप्तेष्व् अङ्गारराशिषु ॥
केचित् तीक्ष्णैर् अयोदंष्ट्रैर् भक्ष्यन्ते दारुणैः श्वभिः
केचिद् धृष्टैर् अयस्तुण्डैर् वायसैर् आयसैर् इव ॥
केचिद् दाहपरिश्रान्ताः शीतच्छायाभिकाङ्क्षिणः
असि(पत्त्रवनं च्पत्रं वनं )नीलं बद्धा इव विशन्त्य् अमी ॥
पाट्यन्ते दारुवत् केचित् कुठारैर् (बद्धच्बहु)बाहवः
दुःखे ऽपि न (विपच्यन्ते च्विपद्यन्ते कर्मभिर् धारितासवः ॥
सुखं स्याद् इति यत् कर्म कृतं दुःखनिवृत्तये
फलं तस्येदम् अवशैर् दुःखम् एवोपभुज्यते ॥
सुखार्थम् अशुभं कृत्वा यए एते भृशदुःखिताः
आस्वादः स किम् एतेषां करोति सुखम् अण्व् अपि ॥
हसद्भिर् यत् कृतं कर्म कलुषं कलुषात्मभिः
एतत् परिणते काले क्रोशद्भिर् अनुभूयते ॥
यद्य् (एवं चेव )पापकर्माणः पश्येयुः कर्मणां फलम्
वमेयुर् (उष्णं रुधिरं चुष्णरुधिरं मर्मस्व् अभिहता इव ॥
x(च्शारीरेभ्यो ऽपि दुःखेभ्यो नारकेभ्यो मनस्विनः
xअनार्यैः सह संवासो मम कृच्छ्रमतमो मतः ॥
इमे ऽन्ये कर्मभिश् चित्रैश् चित्तविस्पन्दसंभवैः
तिर्यग्योनौ विचित्रायाम् उपपन्नास् तपस्विनः ॥
मांसत्वग्बालदन्तार्थं वैराद् अपि मदाद् अपि
हन्यन्ते (कृपणं च्कृपणा )यत्र बन्धूनां पश्यताम् अपि ॥
अशक्नुवन्तो ऽप्य् अवशाः क्षुत्तर्षश्रमपीडिताः
गोअश्वभूताश् च वाह्यन्ते प्रतोदक्षतमूर्तयः ॥
वाह्यन्ते गजभूताश् च बलीयांसो ऽपि दुर्बलैः
अङ्कुशक्लिष्टमूर्धानस् ताडिताः पादपार्ष्णिभिः ॥
सत्स्व् अप्य् अन्येषु दुःखेषु दुःखं यत्र विशेषतः
परस्परविरोधाच् च पराधीनतयैव च ॥
खस्थाः खस्थैर् हि बाध्यन्ते जलस्था जलचारिभिः
स्थलस्थाः स्थलसंस्थैश् (च $ प्राप्य चैवेतरेतरैः च्तु प्राप्यन्ते चेतरेतरैः ) ॥
उपपन्नास् तथा चेमे मात्सर्याक्रान्तचेतसः
पितृलोके निरालोके कृपणं भुञ्जते फलम् ॥
सूचीछिद्रोपममुखाः पर्वतोपमकुक्षयः
क्षुत्तर्षजनितैर् दुःखैः पीड्यन्ते दुःखभागिनः ॥
आशया (समतिक्रान्ता च्समभिक्रान्ता धार्यमाणाः स्वकर्मभिः
लभन्ते न ह्य् अमी भोक्तुं प्रविद्धान्य् अशुचीन्य् अपि [थिस् वेर्से इस् प्लचेद् अfतेर् 14.30 इन् एद्. च्.] ॥
पुरुषो यदि जानीत मात्सर्यस्येदृशं फलम्
सर्वथा (शिबिवद् च्शिविवद् )दद्याच् छरीरावयवान् अपि ॥
इमे ऽन्ये (नरकप्रख्ये च्नरकं प्राप्य गर्भसंज्ञे ऽशुचिह्रदे
उपपन्ना मनुष्येषु दुःखम् अर्छन्ति जन्तवः ॥
मूल पाठ: Buddhacarita · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0