भाषा

ENहिગુ
ग्रंथ पाठ

Buddhacarita (अन्य संस्करण) · अध्याय 7

7.1

इति बुद्धचरिते महाकाव्ये छन्दकनिवर्तनो नाम षष्ठः सर्गः ॥ 6 ॥
चन्तो विइ
ततो विसृज्याश्रुमुखं रुदन्तं छन्दं वनच्छन्दतया निरास्थः ।
सर्वार्थसिद्धो वपुषाभिभूय तमाश्रमं सिद्ध इव प्रपेदे

7.2

स राजसूनुर्मृगराजगामी मृगाजिरं तन्मृगवत्प्रविष्टः ।
लक्ष्मीवियुक्तो ऽपि शरीरलक्ष्म्या चक्षूंषि सर्वाश्रमिणां जहार

7.3

स्थिता हि हस्तस्थयुगास्तथैव कौतूहलाच्चक्रधराः सदाराः ।
तमिन्द्रकल्पं ददृशुर्न जग्मुर्धुर्या इवार्धावनतैः शिरोभिः

7.4

विप्राश्च गत्वा बहिरिध्महेतोः प्राप्ताः समित्पुष्पवित्रहस्ताः ।
तपःप्रधानाः कृतबुद्धयो ऽपि तं द्रष्टुमीयुर्न मठानभीयुः

7.5

हृष्टाश्च केका मुमुचुर्मयूरा दृष्ट्वाम्बुदं नीलमिवोन्नमन्तः ।
शष्पाणि हित्वाभिमुखाश्च तस्थुर्मृगाश्चलाक्षा मृगचारिणश्च

7.6

दृष्ट्वा तमिक्ष्वाकुकुलप्रदीपं ज्वलन्तमुद्यन्तमिवांशुमन्तम् ।
कृते ऽपि दोहे जनितप्रमोदाः प्रसुस्रुवुर्होमदुहश्च गावः

7.7

कश्चिद्वसूनामयमष्टमः स्यात्स्यादाविश्वनोरन्यतरश्च्युतो वा ।
उच्चेरुरुच्चैरिति तत्र वाचस्तद्दर्शनाद्विस्मयजा मुनीनाम्

7.8

लेखर्षभस्येव वपुर्द्वितीयं धामेव लोकस्य चराचरस्य ।
स द्योतयामास वनं हि कृत्स्नं यदृच्छया सूर्य इवावतीर्णः

7.9

ततः स तैराश्रमिभिर्यथावदभ्यर्चितश्चोपनिमन्त्रितश्च ।
प्रत्यर्चयां धर्मभृतो बभूव स्वरेण साम्भो ऽम्बुधरोपमेन

7.10

कीर्णं तथा पुण्यकृता जनेन स्वर्गाभिकामेन विमोक्षकामः ।
तमाश्रमं सो ऽनुचचार धिरस्तपांसि चित्राणि निरीक्षमाणः

7.11

तपोविकारांश्च निरीक्ष्य सौम्यस्तपोवने तत्र तपोधनानाम् ।
तपस्विनं कंचिदनुव्रजन्तं तत्त्वं विजिज्ञासुरिदं बभाषे

7.12

तत्पूर्वमद्याश्रमदर्शनं मे यास्मादिमं धर्मविधिं न जाने ।
तस्माद्भवानर्हति भाषितुं मे यो निश्चयो यत्प्रति वः प्रवृत्तः

7.13

ततो द्विजातिः स तपोविहारः शाक्यर्षभायर्षभविक्रमाय ।
क्रमेण तस्मै कथयांचकार तपोविशेषांस्तपसः फलं च

7.14

अग्राम्यमन्नं सलिले प्ररूढं पर्णीन तोयं फलमूलमेव ।
यथागमं वृत्तिरियं मुनीनां भिन्नास्तु ते ते तपसां विकल्पाः

7.15

उञ्छेन जीवन्ति खगा इवान्ये तृणानि केचिन्मृगवच्चरन्ति ।
केचिद्भुजङ्गैः सह वर्तयन्ति वल्मीकभूता वनमारुतेन

7.16

आश्मप्रयत्नार्जितवृत्तयो ऽन्ये केचित्स्वदन्तापहतान्नभक्षाः ।
कृत्वा परार्थ श्रपणं तथान्ये कुर्वन्ति कार्यं यदि शेषमस्ति

7.17

केचिज्जलक्लिन्नजटाकलापा द्विः पावकं जुव्हति मन्त्रपूर्वम् ।
मीनैः समं केचिदपो विगाह्य वसन्ति कूर्मोल्लिखितैः शरीरैः

7.18

एवंविधैः कालचितैस्तपोभिः परैर्दिवं यान्त्यपरैर्नृलोकम् ।
दुःखेन मार्गेण सुखं ह्युपैति सुखं हि धर्मस्य वदन्ति मूलम्

7.19

इत्येवमादि द्विपदेन्द्रवत्सः श्रुत्वा वचस्तस्य तपोधनस्य ।
अदृष्टतत्त्वो ऽपि न संतुतोष । शनैरिदं चात्मगतं बभाषे

7.20

दुःखात्मकं नैकविधं तपश्च स्वर्गप्रधानं तपसः फलं च ।
लोकाश्च सर्वे परिणामवन्तः स्वल्पे श्रमः खल्वयमाश्रमाणाम्

7.21

प्रियांश्च बन्धून्विषयांश्च हित्वा ये स्वर्गहेतोर्नियमं चरन्ति ।
ते विप्रयुक्ताः खलु गन्तुकामा महत्तरं बन्धनमेव भूयः

7.22

कायक्लमैर्यश्च तपो ऽभिधानैः प्रवृत्तिमकाङ्क्षति कामहेतोः ।
संसारदोषानपरीक्षमाणो दुःखेन सो ऽन्विच्छति दुःखमेव

7.23

त्रासश्च नित्यं मरणात्प्रजानां यत्नेन चेच्छन्ति पुनःप्रसूतिम् ।
सत्यां प्रवृत्तौ नियतश्च मृत्युस्तत्रैव मग्ना यत एव भीताः

7.24

इहार्थमेके प्रविशन्ति खेदं स्वर्गार्थमन्ये श्रममाप्नुवन्ति ।
सुखार्थमाशाकृपणो ऽकृतार्थः पतत्यनर्थे खलु जीवलोकः

7.25

न खल्वयं गर्हित एव यत्नो यो हीनमृत्सृज्य विशेषगामि ।
प्राज्ञैः समानेन परिश्रमेण कार्यं तु तद्यत्र पुनर्न कार्यम्

7.26

शरीरपीडा तु यदीह धर्मः सुखं शरीरस्य भवत्यधर्मः ।
धर्मेण चाप्नोति सुखं परत्र तस्मादधर्म फलतीह धर्मः

7.27

यतः शरीरं मनसो वशेन प्रवर्तते चापि निवर्तते च ।
युक्तो दमश्चेतस एव तस्माच्चित्तादृते काष्ठसमं शरीरम्

7.28

आहारशुद्ध्या यदि पुण्यमिष्टं तस्मान्मृगानामपि पुण्यमस्ति ।
ये चापि बाह्याः पुरुषाः फलेभ्यो भाग्यापराधेन पराङ्मुखार्थाः

7.29

दुःखे ऽभिसंधिस्त्वथ पुण्यहेतुः सुखे ऽपि कार्यो ननु सो ऽभिसंधिः ।
अथ प्रमाणं न सुखे ऽभिसंधिर्दुःखे प्रमाणं ननु नाभिसंधिः

7.30

तथैव ये कर्मविशुद्धिहेतोः स्पृशन्त्यपस्तीर्थमिति प्रवृत्ताः ।
तत्रापि तोषो हृदि केवलो ऽयं न पावयिष्यन्ति हि पापमापः

7.31

स्पृष्टं हि यद्यद्गुणवद्भिरम्भस्तत्तत्पृथिव्यां यदि तीर्थमिष्टम् ।
तस्माद्गुणानेव परैमि तीर्थमापस्तु निःसंशयमाप एव

7.32

इति स्म तत्तद्बहुयुक्तियुक्तं जगाद चास्तं च ययौ विवस्वान् ।
ततो हविर्धूमविवर्णवृक्षं तपःप्रशान्तं स वनं विवेश

7.33

अभ्युद्धृतप्रज्वलिताग्निहोत्रं कृताभिषेकर्षिजनावकिर्णम् ।
जाप्यस्वनाकूजितदेवकोष्ठं धर्मस्य कर्मान्तमिव प्रवृत्तम्

7.34

काश्चिन्निशास्तत्र निशाकराभः परीक्षमाणश्च तपांस्युवास ।
सर्व परिक्षेप्य तपश्च मत्वा तस्मात्तपःक्षेत्रतलाज्जगाम

7.35

अन्वव्रजन्नाश्रमिणस्ततस्तं तद्रूपमाहात्म्यगतैर्मनोभिः ।
देशादनार्यैरभिभूयमानान्महर्षयो धर्ममिवापयान्तम्

7.36

ततो जटावल्कलचीरखेलांस्तपोधनांश्चैव स तान्ददर्श ।
तपांसि चैषामनुरुध्यमानस्तस्थौ शिवे श्रीमति वृक्षमूले

7.37

अथोपसृत्याश्रमवासिनस्तं मनुष्यवर्य परिवार्य तस्थुः ।
वृद्धश्च तेषां बहुमानपूर्वं कलेन साम्ना गिरमित्युवाच

7.38

त्वय्यागते पूर्ण इवाश्रमो ऽभूत्संपद्यते शून्य एव प्रयाते ।
तस्मादिमं नार्हसि तात हातुं जिजीविषोर्देहमिवेष्टमायुः

7.39

ब्रह्मर्षिराजर्षिसुरर्षिजुष्टः पुण्यः समीपे हिमवान् हि शैलः ।
तपांसि तान्येव तपोधनानां यत्संनिकर्षाद्बहुलीभवन्ति

7.40

तीर्थानि पुण्यायान्यभितस्तथैव सोपानभूतानि नभस्तलस्य
जुष्टानि धर्मात्मभिरात्मवद्भिर्देवर्षिभिश्चैव महर्षिभिश्च

7.41

इतश्च भूयः क्षममुत्तरैव दिक्सेवितुं धर्मीवशेषहेतोः ।
न तु क्षमं दक्षिणतो बुधेन पदं भवेदेकमपि प्रयातुम्

7.42

तपोवने ऽस्मिन्नथ निष्क्रियो वा संकीर्णधर्मापतितो ऽशुचिर्वा ।
दृष्टस्त्वया येन न ते विवत्सा तद्ब्रूहि यावद्रुचितो ऽस्तु वासः

7.43

इमे हि वाञ्छन्ति तपःसहायं तपोनिधानप्रतीमं भवन्तम् ।
वासस्त्वया हीन्द्रसमेन सार्ध बृहस्पतेरभ्युदयावहः स्यात्

7.44

इत्येवमुक्ते स तपस्विमध्ये तपस्विमुख्येन मनीषिमुख्यः ।
भवप्रणाशाय कृतप्रतिज्ञः स्वं भावामन्तर्गतमाचचक्षे

7.45

ऋज्वात्मनां धर्मभृतां मुनीनामिष्टातिथित्वात्स्वजनोपमानाम् ।
एवंविधैर्मा प्रति भावजातैः प्रीतिः परा मे जनितश्च मानः

7.46

स्निग्धाभिराभिर्हृदयंगमाभिः समासतः स्नात इवास्मि वाग्भिः ।
रतिश्च मे धर्मनवग्रहस्य विस्पन्दिता संप्रति भूय एव

7.47

एवं प्रवृत्तान् भवतः शरण्यानतीव संदर्शितपक्षपातान् ।
यास्यामि हित्वेति ममापि दुःखं यथैव बन्धूंस्त्यजतस्तथैव

7.48

स्वर्गाय युष्माकमयं तु धर्मो ममाभिलाषस्त्वपुनर्भवाय ।
अस्मिन्वने येन न मे विवत्सा भिन्नः प्रवृत्त्या हि निवृत्तिधर्मः

7.49

तन्नारतिर्मे न परापचारो वनादितो येन परिव्रजामि ।
धर्मे स्थिताः पूर्वयुगानुरूपे सर्वे भवन्तो हि महर्षिकल्पाः

7.50

ततो वचः सूनृतमर्थवच्च सुश्लक्ष्णमोजस्वि च गर्वित च ।
श्रुत्वा कुमारस्य तपस्विनस्ते विशेषयुक्तं बहुमानमीयुः

7.51

कश्चिद्द्विजस्तत्र तु भस्मशायी प्रांशुः शिखी दारवचीरवासाः ।
आपिङ्गलाक्षस्तनुदीर्घघोणः कुण्डैकहस्तो गिरमित्युवाच

7.52

धीमन्नुदारः खलु निश्चयस्ते यस्त्वं युवा जन्मनि दृष्टदोषः ।
स्वर्गापवर्गौ हि विचार्य सम्यग्यस्यापवर्गे मतिरस्ति सो ऽस्ति

7.53

यज्ञैस्तपोभिर्नियमैश्च तैस्तैः स्वर्ग यियासन्ति हि रागवन्तः ।
रागेण सार्ध रिपुणेव युद्ध्वा मोक्षं परीप्सन्ति तु सत्त्ववन्तः

7.54

तद्बुद्धिरेषा यदि निश्चिता ते तूर्णं भवान् गच्छतु विन्ध्यकोष्ठम् ।
असौ मुनिस्तत्र वसत्यराडो यो नैष्ठिके श्रेयसि लब्धचक्षुः

7.55

तस्माद्भवाञ्च्छ्रोष्यति तत्त्वमार्ग सत्यां रुचौ संप्रतिपत्स्यते च ।
यथा तु पश्यामि मतिस्तथैषा तस्यापि यास्यत्यवधूय बुद्धिम्

7.56

स्पष्टोच्चघोणं विपुलायताक्षं । ताम्राधरौष्ठं सिततीक्षणदंष्ट्रम् ।
इदं हि वक्तुं तनुरक्तजिव्हं ज्ञेयार्णवं पास्यति कृत्स्नमेव

7.57

गम्भीरता या भवतस्त्वगाधा या दीप्तता यानि च लक्षणानि ।
आचार्यकं प्राप्स्यसि तत्पृथिव्यां यन्नर्षिभिः पूर्वयुगे ऽप्यवाप्तम्

7.58

परममिति ततो नृपात्मजस्तमृषिजनं प्रतिनन्द्य निर्ययौ ।
विधिवदनुविधाय ते ऽपि तं प्रविविशुराश्रमिणस्तपोवनम्

मूल पाठ: Buddhacarita · Edition: E.H. Johnston: The Buddhacarita: Or, Acts of the Buddha, Part I. Calcutta: Baptist Mission Press 1935 (Panjab University Oriental Publications, 31) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc