Buddhacarita (अन्य संस्करण) · अध्याय 6
इति बुद्धचरिते महाकाव्ये ऽभिनिष्क्रमणो नाम पञ्चमः सर्गः ॥ 5 ॥
चन्तो वि
ततो मुहूर्ताभ्युदिते जगच्चक्षुषि भास्करे ।
भार्गवस्याश्रमपदं स ददर्श नृणां वरः
सुप्तविश्वस्तहरिणं स्वस्थस्थितविहङ्गमम् ।
विश्रान्त इव यद्दृष्ट्वा कृतार्थ इव चाभवत्
स विस्मयनिवृत्त्यर्थ तपःपूजार्थमेव च ।
स्वां चानुवर्तिता रक्षन्नश्वपृष्ठादवतारत्
अवतीर्य च पस्पर्श निस्तीर्णमिति वाजिनम् ।
छन्दकं चाव्रवीत्प्रीतः स्नापयन्निव चक्षुषा
इमं तार्क्ष्योपमजवं तुरङ्गमनुगच्छता ।
दर्शिता सौम्य मद्भक्तिर्विक्रमश्चायमात्मनः
सर्वथास्म्यन्यकार्यो ऽपि गृहीतो भवता हृदि ।
भर्तुस्नेहश्च यस्यायमीदृशः शक्तिरेव च
अस्निग्धो ऽपि समर्थो ऽस्ति निःसामर्थ्यो ऽपि भक्तिमान् ।
भक्तिमांश्चैव शक्तश्च दुर्लभस्त्वद्विधो भुवि
तत्प्रीतो ऽस्मि तवानेन महाभागेन कर्मणा ।
यस्य ते मयि भावो ऽयं फलेभ्यो ऽपि पराङ्मुखः
को जनस्य फलस्थस्य न स्यादभिमुखो जनः ।
जनीभवति भूयिष्ठं स्वजनो ऽपि विपर्यये
कुलार्थ धार्यते पुत्रः पोषार्थ सेव्यते पिता ।
आशयाच्छिलष्यति जगन्नास्ति निष्कारणा स्वता
किमुक्त्वा बहु संक्षेपात्कृतं मे सुमहत्प्रियम् ।
निवर्तस्वाश्वमादाय संप्राप्तो ऽस्मीप्सितं पदम्
इत्युक्त्वा स महाबाहुरनुशंसचिकीर्षया ।
भूषणान्यवमुच्यास्मै संतप्तमनसे ददौ
मुकुटाद्दीपकर्माणं मणीमादाय भास्वरम् ।
ब्रुवन्वाक्यमिदं तस्थौ सांदित्य इव मन्दरः
अनेन मणिना छन्द प्रणम्य बहुशो नृपः ।
विज्ञाप्यो ऽमुक्तविश्रम्भं संतापविनिवृत्तये
जन्ममरणनाशार्थ प्रविष्टो ऽस्मि तपोवनम् ।
न खलु स्वर्गतर्षेण नास्नेहेन न मन्युना
तदेवमभिनिष्क्रान्तं न मां शोचितुमर्हसि ।
भूत्वापि हि चिरं श्लेषः कालेन न भविष्यति
ध्रुवो यस्माच्च विश्लेषस्तस्मान्मोक्षाय मे मतिः ।
विप्रयोगः कथं न स्याद् भूयो ऽपि स्वजनादिति
शोकत्यागाय निष्क्रान्तं न मां शोचितुमर्हसि ।
शोकहेतुषु कामेषु सक्ताः शोच्यास्तु रागिणः
अयं च किल पूर्वेषामस्माकं निश्चयः स्थिरः ।
इति दायाद्यभूतेन न शोच्यो ऽस्मि पथा व्रजन्
भवन्ति ह्यर्थदायादाः पुरुषस्य विपर्यये ।
पृथिव्यां धर्मदायादाः दुर्लभास्तु न सन्ति वा
यदपि स्यादसमये यातो वनमसाविति ।
अकालो नास्ति धर्मस्य जीविते चञ्चले सति
तस्मादद्यैव मे श्रेयश्चेतव्यमिति निश्चयः ।
जीविते को हि विश्रम्भो मृत्यौ प्रत्यर्थिनि स्थिते
एवमादि त्वया सौम्य विज्ञाप्यो वसुधाधिपः ।
प्रयतेथास्तथा चैव यथा मां न स्मरेदापि
अपि नैर्गुण्यमस्माकं वाच्यं नरपतौ त्वया ।
नैर्गुण्यात्त्यज्यते स्नेहः स्नेहत्यागान्न शोच्यते
इति वाक्यमिदं श्रुत्वा छन्दः संतापविक्लवः ।
बाष्पग्रथितया वाचा प्रत्युवाच कृताञ्जलिः
अनेन त व भावेन बान्धवायासदायिना ।
भर्तः सीदति मे चेतो नदीपङ्क इव द्विपः
कस्य नोत्पादयेद्बाष्पं निश्चयस्ते ऽयमीदृशः ।
अयोमये ऽपि हृदये किं पुनः स्नेहविक्लवे
विमानशयनार्हं हि सौकुमार्यमिदं क्व च ।
खरदर्भाङ्कुरवती तपोवनमही क्व च
श्रुत्वा तु व्यवसायं ते यदश्वो ऽयं मयाहृतः ।
बलात्कारेण तन्नाथ दैवेनैवास्मि कारितः
कथं ह्यात्मवशो जानन् व्यवसायमिमं तव ।
उपानयेयं तुरगं शोकं कपिलवास्तुनः
तन्नार्हसि महाबाहो विहातुं पुत्रलालसम् ।
स्निग्धं वृद्धं च राजानं सद्धर्ममिव नास्तिकः
संवर्धनपरिश्रान्तां द्वितीयां तां च मातरम् ।
देवीं नार्हसि विस्मर्तु कृतघ्न इव सत्क्रियाम्
बालपुत्रां गुणवर्ती कुलश्लाध्यां पतिव्रताम् ।
देवीमर्हसि न त्यक्तुं क्लीबः प्राप्तामिव श्रियम्
पुत्रं याशोधरं श्लाध्यं यशोधर्मभृतां वरम् ।
बालमर्हसि न त्यक्तुं व्यसनीवोत्तमं यशः
अथ बन्धुं च राज्यं च त्यक्तुमेव कृता मतिः ।
मां नार्हसि विभो त्यक्तुं त्वत्पादौ हि गतिर्मम
नास्मि यातुं पुरं शक्तो दह्यमानेन चेतसा ।
त्वामरण्ये परित्यज्य सुमन्त्र इव राघवम्
किं हि वक्ष्यति मां राजा त्वदृते नगरं गतम् ।
वक्ष्याम्युचितदर्शित्वात्किं तवान्तःपुराणि वा
यदप्यात्थापि नैर्गुण्यं वाच्यं नरपताविति ।
किं तद्वक्ष्याम्यभूतं ते निर्दोषस्य मुनेरिव
हृदयेन सलज्जेन जिव्हया सज्जमानया ।
अहं यदपि वा ब्रूयां कस्तच्छ्रद्धातुमर्हति
यो हि चन्द्रमसस्तैक्ष्ण्यं कथयेच्छ्रद्दधीत वा ।
स दोषांस्तव दोषज्ञ कथयेच्छ्रद्दधीत वा
सानुक्रोशस्य सततं नित्यं करुणवेदिनः ।
स्निग्धत्यागो न सदृशो निवर्तस्व प्रसीद मे
इति शोकाभिभूतस्य श्रुत्वा छन्दस्य भाषितम् ।
स्वस्थः परमया धृत्या जगाद वदतां वरः
मद्वियोगं प्रति च्छन्द संतापस्त्यज्यतामयम् ।
नानाभावो हि नियतं पृथग्जातिषु देहिषु
स्वजनं यद्यपि स्नेहान्न त्यजेयमहं स्वयम् ।
मृत्युरन्योन्यमवशानस्मान् संत्याजयिष्यति
महत्या तृष्णया दुःखैर्गर्भेणास्मि यया धृतः ।
तस्या निष्फलयत्नायाः क्वाहं मातुः क्व सा मम
वासवृक्षे समागम्य विगच्छन्ति यथाण्डजाः ।
नियतं विप्रयोगान्तस्तथा भूतसमागमः
समेत्य च यथा भूयो व्यपयान्ति बलाहकाः ।
संयोगो विप्रयोगश्च तथा मे प्राणिनां मतः
यस्माद्याति च लोको ऽयं विप्रलभ्य परंपरम् ।
ममत्त्वं न क्षमं तस्मात्स्वप्नभूते समागमे
सहजेन वियुज्यन्ते पर्णरागेण पादपाः ।
अन्येनान्यस्य विश्लेषः किं पुनर्न भविष्यति
तदेवं सति संतापं मा कार्षी सौम्य गम्यताम् ।
लम्बते यदि तु स्नेहो गत्वापि पुनराव्रज
ब्रूयाश्चास्मत्कृतापेक्षं जनं कपिलवास्तुनि ।
त्यज्यतां तग्दतः स्नेहः श्रूयतां चास्य निश्चयः
क्षिप्रमेष्यति वा कृत्वा जन्ममृत्युक्षयं किल ।
अकृतार्थो निरारम्भो निधनं यास्यतीति वा
इति तस्य वचः श्रुत्वा कन्थकस्तुरगोत्तमः ।
जिव्हया लिलिहे पादौ बाष्पमुष्णं मुमोच च
जालिना स्वस्तिकाङ्केन चक्रमध्येन पाणिना ।
आममर्श कुमारस्तं बभाषे च वयस्यवत्
मुञ्च कन्थक मा बाष्पं दर्शितेयं सदश्वता ।
मृष्यतां सफलः शीघ्रं श्रमस्ते ऽयं भविष्यति
मणित्सरुं छन्दकहस्तसंस्थं ततः स धीरो निशितं गृहीत्वा
कोशादसिं कञ्चनभक्तिचित्रं बिलादिवशीविषमुद्बबर्ह
निष्कास्य तं चोत्पलपत्त्रनीलं चिच्छेद चित्रं मुकुटं सकेशम् ।
विकीर्यमाणांशुकमन्तरीक्षे चिक्षेप चैनं सरसीव हंसम्
पूजाभिलाषेण च बाहुमान्याद्दिवौकसस्तं जगृहुः प्रविद्धम् ।
यथावदेनं दिवि देवसङ्घा दिव्यैर्विशेषैर्महयां च चक्रुः
मुक्त्वा त्वलंकारकलत्रवत्तां श्रीविप्रवासं शिरसश्च कृत्वा ।
दृष्ट्वांशुकं काञ्चनहंसचिन्हं वन्यं स धीरो ऽभिचकाङ्क्ष वासः
ततो मृगव्याधनपुर्दिवौका भावं विदित्वास्य विशुद्धभावः ।
काषायवस्त्रो ऽभिययौ समीपं तं शाक्यराजप्रभवो ऽभ्युवाच
शिवं च काषायमृषिध्वजस्ते न युज्यते हिंस्रमिदं धनुश्च ।
तत्सौम्य यद्यस्ति न सक्तिरत्र मह्यं प्रयच्छेदमिदं गृहाण
व्याधो ऽब्रवीत्कामद काममारादनेन विश्वास्य मृगाग्निहन्मि ।
अर्थस्तु शक्रोपम यद्यनेन हन्त प्रतीच्छानय शुक्लमेतत्
परेण हर्षेण ततः स वन्यं जग्राह वासो ऽशुकमुत्ससर्ज ।
व्याधस्तु दिव्यं वपुरेव बिभ्रत्तच्छुक्लमादाय दिवं जगाम
ततः कुमारश्च स चाश्वगोपस्तस्मिंस्तथा याति विसिस्मियाते ।
आरण्यके वाससि चैव भूयस्तस्मिन्नकार्ष्टा बहुमानमाशु
छन्दं ततः साश्रुमुखं विसृज्य काषायसंभृद्धृतिकीर्तिभृत्सः ।
येनाश्रमस्तेन ययौ महात्मा संध्याभ्रसंवीत इवोडुराजः
ततस्तथा भर्तरि राज्यनिःस्पृहे तपोवनं याति विवर्णवाससि ।
भुजौ समुत्क्षिप्य ततः स वाजिभृद् भृशं विचुक्रोश पपात च क्षितौ
विलोक्य भूयश्च रुरोद सस्वरं हयं भुजाभ्यामुपगुह्य कन्थकम् ।
ततो निराशो विलपनन्मुहुर्मुहुर्ययौ शरीरेण पुरं न चेतसा
क्वचित्प्रदध्यौ विललाप च क्वचित् क्वचित्प्रचस्खाल पपात च क्वचित् ।
अतो व्रजन् भक्तिवशेन दुःखितश्चचार बव्हीरवशः पथि क्रियाः
मूल पाठ: Buddhacarita · Edition: E.H. Johnston: The Buddhacarita: Or, Acts of the Buddha, Part I. Calcutta: Baptist Mission Press 1935 (Panjab University Oriental Publications, 31) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0