भाषा

ENहिગુ
ग्रंथ पाठ

Buddhacarita (अन्य संस्करण) · अध्याय 2

2.1

इति बुद्धचरिते महाकाव्ये भगवत्प्रसूतिर्नाम प्रथमः सर्गः ॥ 1 ॥
चन्तो इइ
आ जन्मनो जन्मजरान्तकस्य तस्यात्मजस्यात्मजितः स राजा ।
अहन्यहन्यर्थगजाश्वमित्रैर्वृद्धिं ययौ सिन्धुरिवाम्बुवेगैः

2.2

धनस्य रत्नस्य च तस्य तस्य कृताकृतस्यैव च काञ्चनस्य ।
तदा हि नैकान्स निधीनवाप मनोरथस्याप्यतिभारभूतान्

2.3

ये पद्मकल्पैरपि च द्विपेन्द्रैर्न मण्डलं शक्यमिहाभिनेतुम् ।
मदोत्कटा हैमवता गजास्ते विनापि यत्नादुपतस्थुरेनम्

2.4

नानाङ्कचिन्हैर्नवहेमभाण्डैर्विभूषितैर्लम्बसटैस्तथान्यैः ।
संचुक्षुभे चास्य पुरं तुरङ्गैर्बलेन मैत्र्या च धनेन चाप्तैः

2.5

पुष्टाश्च तुष्टाश्च तथास्य राज्ये साध्व्यो ऽरजस्का गुणवत्पयस्काः ।
उदग्रवत्सैः सहिता बभूवुर्बव्ह्यो बहुक्षीरदुहश्च गावः

2.6

मध्यस्थतां तस्य रिपुर्जगाम मध्यस्थभावः प्रययौ सुहृत्त्वम् ।
विशेषतो दार्ढ्यमियाय मित्रं द्वावस्य पक्षावपरस्तु नास

2.7

तथास्य मन्दानिलमेघशब्दः सौदामिनीकुण्डलमण्डिताभ्रः ।
विनाश्मवर्षाशनिपातदोषैः काले च देशे प्रववर्ष देवः

2.8

रुरोह सस्यं फलवद्यथर्तु तदाकृतेनापि कृषिश्रमेण ।
ता एव चास्यौषधयो रसेन सारेण चैवाभ्यधिका बभूवुः

2.9

शरीरसंदेहकरे ऽपि काले संग्रामसंमर्द इव प्रवृते ।
स्वस्थाः सुखं चैव निरामयं च प्रजज्ञिरे कालवशेन नार्यः

2.10

पृथग्व्रतिभ्यो विभवे ऽपि गर्ह्ये न प्रार्थयन्ति स्म नराः परेभ्यः ।
अभ्यर्थितः सूक्ष्मधनो ऽपि चार्यस्तदा न कश्चिद्विमुखो बभूव

2.11

नागौरवो बन्धुषु नाप्यदाता नैवाव्रतो नानृतिको न हिंस्रः ।
आसीत्तदा कश्चन तस्य राज्ये राज्ञो ययातेरिव नाहुषस्य

2.12

उद्यानदेवायतनाश्रमाणां कूपप्रपापुष्करिणीवनानाम् ।
चक्रुः क्रियास्तत्र च धर्मकामाः प्रत्यक्षतः स्वर्गीमवोपलभ्य

2.13

मुक्तश्च दुर्भिक्षभयामयेभ्यो हृष्टो जनः स्वर्ग इवाभिरेमे ।
पत्नीं पतिर्वा महिषी पतिं वा परस्परं न व्यभिचेरतुश्च

2.14

कश्चित्सिषेवे रतये न कामं कामार्थमर्थं न जुगोप कश्चित् ।
कश्चिद्धनार्थं न चचार धर्म धर्माय कश्चिन्न चकार हिंसाम्

2.15

स्तेयादिभिश्चाप्यरिभिश्च नष्टं स्वस्थं स्वचक्रं परचक्रमुक्तम् ।
क्षेमं सुभिक्षं च बभूव तस्य पुरानरण्यस्य यथैव राष्ट्रे

2.16

तदा हि तज्जन्मनि तस्य राज्ञो मनोरिवादित्यसुतस्य राज्ये ।
चचार हर्षः प्रणनाश पाप्मा जज्वाल धर्मः कलुषः शशाम

2.17

एवंविधा राजकुलस्य संपत्सर्वार्थसिद्धिश्च यतो बभूव ।
ततो नृपस्तस्य सुतस्य नाम सर्वार्थसिद्धि ऽयमिति प्रचक्रे

2.18

देवी तु माया विबुधर्षिकल्पं दृष्ट्वा विशालं तनयप्रभावम् ।
जातं प्रहर्ष न शशाक सोढुं ततो निवासाय दिवं जगाम

2.19

ततः कुमारं सुरगर्भकल्पं स्नेहेन भावेन च निर्विशेषम् ।
मातृष्वसा मातृसमप्रभावा संवर्धयामात्मजवद्बभूव

2.20

ततः स बालार्क इवोदयस्थः समीरितो वन्हिरिवानिलेन ।
क्रमेण सम्यग्ववृधे कुमारस्ताराधिपः पक्ष इवातमस्के

2.21

ततो महार्हाणि च चन्दनानि रत्नावलीश्चौषधिभिः सगर्भाः ।
मृगप्रयुक्तान् रथकांश्च हैमानाचक्रिरे ऽस्मै सुहृदालयेभ्यः

2.22

वयो ऽनुरूपाणि च भूषणानि हिरण्मयान् हस्तिमृगाश्वकांश्च ।
रथांश्च गोपुत्रकसंप्रयुक्तान् पुत्रीश्च चामीकररूप्यचित्राः

2.23

एवं स तैस्तैर्विषयोपचारैर्वयो ऽनुरूपैरुपचर्यमाणः ।
बालो ऽप्यबालप्रतिमो बभूव धृत्या च शौचेन धिया श्रिया च

2.24

वयश्च कौमारमतीत्य सम्यक् संप्राप्य काले प्रतिपत्तिकर्म ।
अल्पैरहोभिर्बहुवर्षगाम्या जग्राह विद्याः स्वकुलानुरूपाः

2.25

नैःश्रेयसं तस्य तु भव्यमर्थं श्रुत्वा पुरस्तादसितान्महर्षेः ।
कामेषु सङ्गं जनयांबभूव वनानि यायादिति शाक्यराजः

2.26

कुलात्ततो ऽस्मै स्थिरशीलयुक्तात्साध्वीं वपुर्ह्रीविनयोपपन्नाम् ।
यशोधरां नाम यशोविशालां वामाभिधानां श्रियमाजुहाव

2.27

विद्योतमानो वपुषा परेण सनत्कुमारप्रतिमः कुमारः ।
सार्ध तया शाक्यनरेन्द्रवध्वा शच्या सहस्राक्ष इवाभिरेमे

2.28

किंचिन्मनःक्षोभकरं प्रतीपं कथं न पश्येदिति सो ऽनुचिन्त्य ।
वासं नृपो व्यादिशति स्म तस्मै हर्म्योदरेष्वेव न भूप्रचारम्

2.29

ततः शरत्तोयदपाण्डरेषु भूमौ विमानेष्विव रञ्जितेषु ।
हर्म्येषु सर्वर्तुसुखाश्रयेषु स्त्रीणामुदारैर्विजहार तूर्यैः

2.30

कलैर्हि चामीकरबद्धकक्षैर्नारीकराग्राभिहतैर्मृदङ्गैः ।
वराप्सरोनृत्यसमैश्च नृत्यैः कैलासवत्तद्भवनं रराज

2.31

वाग्भिः कलाभिर्लीलतैश्च हावैर्मदैः सखेलैर्मधुरैश्च हासैः ।
तं तत्र नार्यो रमयांबभूवुर्भूवञ्चितैरर्धीनरीक्षितैश्च

2.32

ततः स कामाश्रयपण्डिताभिः स्त्रीभिर्गृहीतो रतिकर्कशाभिः ।
विमानपृष्ठान्न महीं जगाम विमानपृष्ठादिव पुण्यकर्मा

2.33

नृपस्तु तस्यैव विवृद्धिहेतोस्तद्भाविनार्थेन च चोद्यमानः ।
शमे ऽभिरेमे विरराम पापाद्भेजे दमं संविबभाज साधून्

2.34

नाधीरवत्कामसुखे ससञ्जे न संररञ्जे विषमं जनन्याम् ।
धृत्येन्द्रियाश्वांश्चपलान्विजिग्ये बन्धूंश्च पौरांश्च गुणैर्जिगाय

2.35

नाध्यैष्ट दुःखाय परस्य विद्यां ज्ञानं शिवं यत्तु तदध्यगीष्ट ।
स्वाभ्यः प्रजाभ्यो हि यथा तथैव सर्वप्रजाभ्यः शिवमाशशंसे

2.36

भं भासुरं चाङ्गिरसाधिदेवं यथावदानर्च तदायुषे सः ।
जुहाव हव्यान्यकृशे कृशानौ ददौ द्विजेभ्यः कृशनं च गाश्च

2.37

सस्नौ शरीरं पवितुं मनश्च तीर्थाम्बुभिश्चैव गुणाम्बुभिश्च ।
वेदोपदिष्टं सममात्मजं च सोमं पपौ शान्तिसुखं च हार्दम्

2.38

सान्त्वं बभाषे न च नार्थवद्यज्जजल्प तत्त्वं न च विप्रियं यत् ।
सान्त्वं ह्यतत्त्वं परुषं च तत्त्वं ह्रियाशकन्नात्मन एव वक्तुम्

2.39

इष्टेष्वनिष्टेषु च कार्यवत्सु न रागदोषाश्रयतां प्रपेदे ।
शिवं सिषेवे व्यवहारशुद्धं यज्ञं हि मेने न तथा यथा तत्

2.40

आशावते चाहिगताय सद्यो देयाम्बुभिस्तर्षमचेच्छिदिष्ट ।
युद्धादृते वृत्तपरश्वधेन द्विड्दर्पमुद्वृत्तमबेभिदिष्ट

2.41

एकं विनिन्ये स जुगोप सप्त सप्तैव तत्याज ररक्ष पञ्च ।
प्राप त्रिवर्ग बुबुधे त्रिवर्ग जज्ञे द्विवर्ग प्रजहौ द्विवर्गम्

2.42

कृतागसो ऽपि प्रतिपाद्य वध्यान्नाजीघनन्नापि रुषा ददर्श ।
बबन्ध सान्त्वेन फलेन चैतांस्त्यागो ऽपि तेषां ह्यनयाय दृष्टः

2.43

आर्षाण्यचारीत्परमव्रतानि वैराण्यहासीच्चिरसंभृतानि ।
यशांसि चापद्गुणगन्धवन्ति रजांस्यहार्षीन्मलिनीकराणि

2.44

न चाजिहीर्षिद्वलिमप्रवृत्तं न चाचिकीर्षित्परवस्त्वभिध्याम् ।
न चाविवक्षीद् द्विषतामधर्म न चाविवाक्षीद्धृदयेन मन्युम्

2.45

तस्मिंस्तथा भूमिपतौ प्रवृत्ते भृत्याश्च पौराश्च तथैव चेरुः ।
शमात्मके चेतसि विप्रसन्ने प्रयुक्तयोगस्य यथेन्द्रियाणि

2.46

काले ततश्चारुपयोधरायां यशोधरायां स्वयशोधरायाम् ।
शौद्धोदने राहुसपत्नवक्त्रो जज्ञे सुतो राहुल एव नाम्ना

2.47

अथेष्टपुत्रः परमप्रतीतः कुलस्य वृद्धिं प्रति भूमिपालः ।
यथैव पुत्रप्रसवे ननन्द तथैव पौत्रप्रसवे ननन्द

2.48

पुत्रस्य मे पुत्रगतो ममेव स्नेहः कथं स्यादिति जातहर्षः ।
काले स तं तं विधिमाललम्बे पुत्रप्रियः स्वर्गमिवारुरुक्षन्

2.49

स्थित्वा पथि प्राथमकल्पिकानां राजवर्षभाणां यशसान्वितानाम् ।
शुक्लान्यमुक्त्वापि तपांस्यतप्त यज्ञैश्च हिंसारहितैरयष्ट

2.50

अजाज्वलिष्टाथ स पुण्यकर्मा नृपश्रिया चैव तपःश्रिया च ।
कुलेन वृत्तेन धिया च दीप्तस्तेजः सहस्रांशुरिवोत्सिसृक्षुः

2.51

स्वायंभुवं चार्चिकमर्चयित्वा जजाप पुत्रस्थितये स्थितश्रीः ।
चकार कर्माणि च दुष्कराणि प्रजाः सिसृक्षुः क इवादिकाले

2.52

तत्याज शस्त्रं विममर्श शास्त्रं शमं सिषेवे नियमं विषेहे ।
वशीव कंचिद्विषयं न भेजे पितेव सर्वान्विषयान्ददर्श

2.53

बभार राज्यं स हि पुत्रहेतोः पुत्रं कुलार्थं यशसे कुलं तु ।
स्वर्गाय शब्दं दिवमात्महेतोर्धर्मार्थमात्मस्थितिमाचकाङ्क्ष

2.54

एवं स धर्म विविधं चकार सिद्भिर्निपातं श्रुतितश्च सिद्धम् ।
दृष्ट्वा कथं पुत्रमुखं सुतो मे वनं न यायादिति नाथमानः

2.55

रिरक्षिषन्तः श्रियमात्मसंस्थां रक्षन्ति पुत्रान् भुवि भूमिपालाः ।
पुत्रं नरेन्द्रः स तु धर्मकामो ररक्ष धर्माद्विषयेषु मुञ्चन्

2.56

वनमनुपमसत्त्वा बोधिसत्त्वास्तु सर्वे विषयसुखरसज्ञा जग्मुरुत्पन्नपुत्राः ।
अत उपचितकर्मा रूढमूले ऽपि हेतौ स रतिमुपसिषेवे बोधिमापन्न यावत्

मूल पाठ: Buddhacarita · Edition: E.H. Johnston: The Buddhacarita: Or, Acts of the Buddha, Part I. Calcutta: Baptist Mission Press 1935 (Panjab University Oriental Publications, 31) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc