भाषा

ENहिગુ
ग्रंथ पाठ

Buddhacarita (अन्य संस्करण) · अध्याय 1

1.1

अश्वघोष: बुद्धचरित
चन्तो 1
ऐक्ष्वाक इक्ष्वाकुसमप्रभावःशाक्येष्वशक्येषु विशुद्धवृत्तः ।
प्रियः शरच्चन्द्र इव प्रजानां शुद्धोदनो नाम बभूव राजा

1.2

तस्येन्द्रकल्पस्य बभूव पत्नी दीप्त्या नरेन्द्रस्य समप्रभावा ।
पद्मेव लक्ष्मीः पृथिवीव धीरा मायेति नाम्नानुपमेव माया

1.3

सार्ध तयासौ विजहार राजा नाचिन्तयद्वैश्रवणस्य लक्ष्मीम् ।
ततश्च विधेव समाधियुक्ता गर्भ दधे पापविवर्जिता सा

1.4

प्राग्गर्भधान्नान्मनुजेन्द्रपत्नी सितं ददर्श द्विपराजमेकम् ।
स्वप्ने विशन्तं वपुरात्मनः सा न तन्निमित्तं समवाप तापम्

1.5

सा तस्य देवप्रतिमस्य देवी गर्भेण वंशश्रियमुद्वहन्ती ।
श्रमं न लेभे न शुचं न मायां गन्तुं वनं सा निभृतं चकाङ्क्ष

1.6

सा लुम्बिनी नाम वनान्तभूमिं चित्रद्रूमां चैत्ररथाभिरामाम् ।
ध्यानानुकूलां विजनामियेष तस्यां निवासाय नृपं बभाषे

1.7

आर्याशयां तां प्रवणां च धर्मे विज्ञाय कौतूहलहर्षपूर्णः ।
शिवात् पुराद् भूमिपतिर्जगाम तत्प्रीतये नापि विहारहेतोः

1.8

तस्मिन्वने श्रीमति राजपत्नी प्रसूतिकालं समवेक्षमाणा ।
शय्यां वितानोपहितां प्रपेदे नारीसहस्रैरभिनन्द्यमाना

1.9

ततः प्रसन्नश्च बभूव पुष्यस्तस्याश्च देव्या व्रतसंस्कृतायाः ।
पार्श्वात्सुतो लोकहिताय जज्ञे निर्वेदनं चैव निरामयं च

1.10

ऊरोर्यथौर्वस्य पृथोश्च हस्तान्मान्धातुरिन्द्रप्रतिमस्य मूर्ध्नः ।
कक्षीवतश्चैव भुजांसदेशात्तथाविधं तस्य बभूव जन्म

1.11

क्रमेण गर्भादभिनिःसृतः सन् बभौ च्युतः खादिव योन्यजातः ।
कल्पेष्वनेकेषु च भावितात्मा यः संप्रजानन्सुषुवे न मूढः

1.12

दीप्त्या च धैर्येण च यो रराज बालो रविभूमिमिवावतीर्णः ।
तथातिदीप्तो ऽपि निरीक्ष्यमाणो जहार चक्षूंषि यथा शशाङ्कः

1.13

स हि स्वगात्रप्रभयोज्ज्वलन्त्या दीपप्रभां भास्करवन्मुमोष ।
महार्हजाम्बूनदचारुवर्णो विद्योतयामास दिशश्च सर्वाः

1.14

अनाकुलान्युब्जसमुद्गतानि निष्पेषवद्व्यायतविक्रमाणि ।
तथैव धीराणि पदानि सप्त सप्तर्षितारासदृशो जगाम

1.15

बोधाय जातो ऽस्मि जगद्धितार्थमन्त्या भवोत्पत्तिरियं ममेति ।
चतुर्दिशं सिंहगतिर्विलोक्य वाणी च भव्यार्थकरीमुवाच

1.16

खात्प्रस्रूते चन्द्रमरीचिशुभ्रे द्वे वारिधारे शिशिरोष्णवीर्ये ।
शरीरसंस्पर्शसुखान्तराय निपेततुर्मूर्धनि तस्य सौम्ये

1.17

श्रीमद्विताने कनकोज्ज्वलाङ्गे वैडूर्यपादे शयने शयानम् ।
यद्गौरवात्काञ्चनपद्महस्ता यक्षाधिपाः संपरिवार्य तस्थुः

1.18

अदृश्यभावाश्च दिवौकसः खे यस्य प्रभावात्प्रणतैः शीरोभिः ।
आधारयन् पाण्डरमातपत्रं बोधाय जेपुः परमाशिषश्च

1.19

महोरगा धर्मविशेषतर्षाद् बुद्धेष्वतीतेषु कृताधिकाराः ।
यमव्यजन् भक्तिविशिष्टनेत्रा मन्दारपुष्पैः समवाकिरंश्च

1.20

तथागतोत्पादगुणेन तुष्टाः शुद्धाधिवासाश्च विशुद्धसत्त्वाः ।
देवा ननन्दुर्विगते ऽपि रागे मग्नस्य दुःखे जगतो हिताय

1.21

यस्य प्रसूतौ गिरिराजकीला वाताहता नौरिव भूश्चचाल ।
सचन्दना चोत्पलपद्मगर्भा पपात वृष्टिर्गगनादनभ्रात्

1.22

वाता ववुः स्पर्शसुखा मनोज्ञा दिव्यानि वासांस्यवपातयन्तः ।
सूर्यः स एवाभ्यधिकं चकाशे जज्वाल सौम्यार्चिरनीरितो ऽग्निः

1.23

प्रागुत्तरे चावसथप्रदेशे कूपः स्वयं प्रादुरभूत्सिताम्बुः
अन्तःपुराण्यागतविस्मयानि यस्मिन् क्रियास्तीर्थ इव प्रचक्रुः

1.24

धर्मार्थिभिर्भूतगणैश्च दिव्यैस्तद्दर्शनार्थ वनमापुपूरे ।
कौतूहलेनैव च पादपेभ्यः पुष्पाण्यकाले ऽप्यवपातयद्भिः

1.25

भूतैरसौम्यैः परित्यक्तहिंसैर्नाकारि पीडा स्वगणे परे वा ।
लोके हि सर्वाश्च विना प्रयासं रुजो नराणां शमयांबभूवुः

1.26

कलं प्रणेदुः मृगपक्षिणश्च शान्ताम्बुवाहाः सरितो बभूवुः ।
दिशः प्रसेदुर्विमले निरभ्रे विहायसे दुन्दुभयो निनेदुः

1.27

लोकस्य मोक्षाय गुरौ प्रसूते शमं प्रपेदे जगदव्यवस्थम् ।
प्राप्येव नाथं खलु नीतिमन्तम् एको न मारो मुदमाप लोके

1.28

दिव्याद्भुतं जन्म निरीक्ष्य तस्य धीरो ऽपि राजा बहुक्षोभमेतः ।
स्नेहादसौ भीतिप्रमोदजन्ये द्वे वारिधारे मुमुचे नरेन्द्रः

1.29

अमानुषी तस्य निशम्य शक्तिं माता प्रकृत्या करुणार्द्रचित्ता ।
प्रीता च भीता च बभूव देवी शीतोष्णमिश्रेव जलस्य धारा

1.30

निरीक्षमाणा भयहेतुमेव ध्यातुं न शेकुः वनिताः प्रवृद्धाः ।
पूताश्च ता मङ्गलकर्म चक्रुः शिवं ययाचुः शिशवे सुरौघान्

1.31

विप्राश्च ख्याताः श्रुतशीलवाग्भिः श्रुत्वा निमित्तानि विचार्य सम्यक् ।
मुखैः प्रफुल्लैश्चकितैश्च दीप्तैः । भीतप्रसन्नं नृपमेत्य प्रोचुः

1.32

शमेप्सवो ये भुवि सन्ति सत्त्वाः । पुत्रं विनेच्छन्ति गुणं न कञ्चित् ।
त्वत्पुत्र एषो ऽस्ति कुलप्रदीपः । नृत्योत्सवं त्वद्य विधेहि राजन्

1.33

विहाय चिन्तां भव शान्तचित्तो मोदस्व वंशस्तव वृद्धिभागी ।
लोकस्य नेता तव पुत्रभूतः दुःखार्दितानां भुवि एष त्राता

1.34

दीपप्रभो ऽयं कनकोज्ज्वलाङ्गः सुलक्षणैर्यैस्तु समन्वितो ऽस्ति ।
निधिर्गुणानां समये स गतां बुद्धर्षिभावं परमां श्रियं वा

1.35

इच्छेदसौ वै पृथिवीश्रियं चेत् न्यायेन जित्वा पृथिवी समग्राम् ।
भूपेषु राजेत यथा प्रकाशः ग्रहेषु सर्वेषु रवेर्विभाति

1.36

मोक्षाय चेद्वा वनमेव गच्छेत् । तत्त्वेन सम्यक् स विजित्य सर्वान् ।
मतान् पृथिव्यां बहुमानमेतः राजेत शैलेषु यथा सुमेरुः

1.37

यथा हिरण्यं शुचि धातुमध्ये मेरुर्गिरीणां सरसां समुद्रः ।
तारासु चन्द्रस्तपतां च सूर्यः पुत्रस्तथा ते द्विपदेषु वर्यः

1.38

तस्याक्षिणी निर्निमिषे विशाले स्निग्धे च दीप्ते विमले तथैव ।
निष्कम्पकृष्णायतशुद्धपक्ष्मे द्रष्टुं समर्थे खलु सर्वभावान्

1.39

कस्मान्नु हेतोः कथितान्भवद्भिः वरान्गुणान् धारयते कुमारः ।
प्रापुर्न पूर्वे मुनयो नृपाश्च राज्ञेति पृष्टा जगदुस् द्विजास्तम्

1.40

ख्यातानि कर्माणि यशो मतिश्च पूर्व न भूतानि भवन्ति पश्चात् ।
गुणा हि सर्वाः प्रभवन्ति हेतोः निदर्शनान्यत्र च नो निबोध

1.41

यद्राजशास्त्रं भृगुरङ्गिरा वा न चक्रतुर्वशकरावृषी तौ ।
तयोः सुतौ सौम्य ससर्जतुस्तत्कालेन शुक्रश्च बृहस्पतिश्च

1.42

सारस्वतश्चापि जगाद नष्टं वेदं पुनर्यं ददृशुर्न पूर्वे ।
व्यासस्तथैनं बहुधा चकार न यं वसिष्ठः कृतवानशक्तिः

1.43

वाल्मीकिरादौ च ससर्ज पद्यं जग्रन्थ यन्न च्यवनो महर्षिः ।
चिकित्सितं यच्च चकार नात्रिः पश्चात्तदात्रेय ऋषिर्जगाद

1.44

यच्च द्विजत्वं कुशिको न लेभे तद्गाधिनः सुनूरवाप राजन् ।
वेलां समुद्रे सगरश्च दध्रे नेक्ष्वाकवो यां प्रथमं बबन्धुः

1.45

आचार्यकं योगविधौ द्विजानामप्राप्तमन्यैर्जनको जगाम ।
ख्यातानि कर्माणि च यानि शौरेः शूरादयस्तेष्वबला बभूवुः

1.46

तस्मात्प्रमाणं न वयो न वंशः कश्चित्क्वचिच्छ्रैष्ठ्यमुपैति लोके ।
राज्ञामृषीणां च हि तानि तानि कृतानि पुत्रैरकृतानि पूर्वैः

1.47

एवं नृपः प्रत्ययितैर्द्विजैस्तैराश्वासितश्चाप्यभिनन्दितश्च ।
शङ्कामनिष्टां विजहौ मनस्तः प्रहर्षमेवाधिकमारुरोह

1.48

प्रीतश्च तेभ्यो द्विजसत्तमेभ्यः सत्कारपूर्व प्रददौ धनानि ।
भूयादयं भूमिपतिर्यथोक्तो यायाज्जरामेत्य वनानि चेति

1.49

अथो निमित्तैश्च तपोबलाच्च तज्जन्म जन्मान्तकरस्य बुद्ध्वा ।
शाक्येश्वरस्यालयमाजगाम सद्धर्मतर्षादसितो महर्षिः

1.50

तं ब्रह्मविद्ब्रह्मविदं ज्वलन्तं ब्राह्म्या श्रिया चैव तपःश्रिया च ।
राज्ञो गुरुर्गौरवसत्क्रियाभ्यां प्रवेशायामास नरेन्द्रसद्म

1.51

स पार्थिवान्तःपुरसंनिकर्ष कुमारजन्मागतहर्षवेगः ।
विवेश धीरो वनसंज्ञयेव तपःप्रकर्षाच्च जराश्रयाच्च

1.52

ततो नृपस्तं मुनिमासनस्थं पाद्यार्ध्यपूर्वं प्रतिपूज्य सम्यक् ।
निमन्त्रयामास यथोपचारं पुरा वसिष्ठं स इवान्तिदेवः

1.53

धन्यो ऽस्म्यनुग्राह्यमिदं कुलं मे । यन्मां दिदृक्षुर्भगवानुपेतः ।
आज्ञाप्यतां किं करवाणि सौम्य शिष्यो ऽस्मि विश्रम्भितुमर्हसीति

1.54

एवं नृपेणोपनिमन्त्रितः सन्सर्वेण भावेन मुनिर्यथावत् ।
स विस्मयोत्फुल्लविशालदृष्टिर्गम्भीरधीराणि वचांस्युवाच

1.55

महात्मनि त्वय्युपपन्नमेतत्प्रियातिथौ त्यागिनि धर्मकामे ।
सत्त्वान्वयज्ञानवयो ऽनुरूपा स्निग्धा यदेवं मयि मे मतिः स्यात्

1.56

एतच्च तद्येन नृपर्षयस्ते । धर्मेण सूक्ष्मेण धनान्यवाप्य ।
नित्यं त्यजन्तो विधिवद्बभूवुस्तपोभिराढ्या विभवैर्दरिद्राः

1.57

प्रयोजनं यत्तु ममोपयाने तन्मे शृणु प्रीतिमुपेहि च त्वम् ।
दिव्या मयादित्यपथे श्रुता वाग्बोधाय जातस्तनयस्तवेति

1.58

श्रुत्वा वचस्तच्च मनश्च युक्त्वा ज्ञात्वा निमित्तैश्च ततो ऽस्म्युपेतः ।
दिदृक्षया शाक्यकुलध्वजस्य शक्रध्वजस्येव समुच्छ्रितस्य

1.59

इत्येतदेवं वचनं निशम्य प्रहर्षसंभ्रान्तगतिनरेन्द्रः ।
आदाय धात्र्यङ्कगतं कुमारं संदर्शयामास तपोधनाय

1.60

चक्राङ्कपादं स ततो महर्षिर्जालावनद्धाङ्गुलिपाणिपादम् ।
सोर्णभ्रुवं वारणवस्तिकोशं सविस्मयं राजसुतं ददर्श

1.61

धात्र्यङ्कसंविष्टमवेक्ष्य चैनं देव्यङ्कसंविष्टमिवाग्निसूनुम् ।
बभूव पक्ष्मान्तविचञ्चिताश्रुर्निश्वस्य चैव त्रिदिवोन्मुखो ऽभूत्

1.62

दृष्ट्वासितं त्वश्रुपरिप्लुताक्षं । स्नेहात्तनूजस्य नृपश्चकम्पे ।
सगद्गदं बाष्पकषायकण्ठः पप्रच्छ स प्राञ्जलिरानताङ्गः

1.63

अल्पान्तरं यस्य वपुः सुरेभ्यो बव्हद्भुतं यस्य च जन्म दीप्तम् ।
यस्योत्तमं भाविनमात्थ चार्थ तं प्रेक्ष्य कस्मात्तव धीर बाष्पः

1.64

अपि स्थिरायुर्भगवन् कुमारः कच्चिन्न शोकाय मम प्रसूतः ।
लब्धः कथंचित्सलिलाञ्जलिर्मे न खल्विमं पातुमुपैति कालः

1.65

अप्यक्षयं मे यशसो निधानं कच्चिद्ध्रुवो मे कुलहस्तसारः ।
अपि प्रयास्यामि सुखं परत्र सुप्तो ऽपि पुत्रे ऽनिमिषैकचक्षुः

1.66

कच्चिन्न मे जातमफुल्लमेव कुलप्रवालं परिशोषभागि ।
क्षिप्रं विभो ब्रूहि न मे ऽस्ति शान्तिः स्नेहं सुते वेत्सि हि बान्धवानाम्

1.67

इत्यागतावेगमनिष्टबुद्ध्या बुद्ध्वा नरेन्द्रं स मुनिर्बभाषे ।
मा भून्मतिस्ते नृप काचिदन्या निःसंशयं तद्यदवोचमस्मि

1.68

नास्यान्यथात्वं प्रति विक्रिया मे स्वां वञ्चनां तु प्रति विक्लवो ऽस्मि ।
कालो हि मे यातुमयं च जातो जातिक्षयस्यासुलभस्य बोद्धा

1.69

विहाय राज्यं विषयेष्वनास्थस्तीव्रैः प्रयत्नैरधिगम्य तत्त्वम् ।
जगत्ययं मोहतमो निहन्तुं ज्वलिष्यति ज्ञानमयो हि सूर्यः

1.70

दुःखार्णवाद्व्याधिविकीर्णफेनाज्जरातरङ्गान्मरणोग्रवेगात् ।
उत्तारयिष्यत्ययमुह्यमानमार्त जगज्ज्ञानमहाप्लवेन

1.71

प्रज्ञाम्बुवेगां स्थिरशीलवप्रां समाधिशीतां व्रतचक्रवाकाम् ।
अस्योत्तमां धर्मनदी प्रवृतां । तृष्णार्दितः पास्यति जीवलोकः

1.72

दुःखार्दितेभ्यो विषयावृतेभ्यः संसारकान्तारपथस्थितेभ्यः ।
आख्यास्यति ह्येष विमोक्षमार्ग मार्गप्रनष्टेभ्य इवाध्वगेभ्यः

1.73

विदह्यमानाय जनाय लोके रागाग्निनायं विषयेन्धनेन ।
प्रल्हादमाधास्यति धर्मवृष्ट्या वृष्ट्या महामेघ इवातपान्ते

1.74

तृष्णार्गलं मोहतमःकपाटं द्वारं प्रजानामपयानहेतोः ।
विपाटयिष्यत्ययमुत्तमेन सद्धर्मताडेन दुरासदेन

1.75

स्वैर्मोहपाशैः परिवेष्टितस्य दुःखाभिभूतस्य निराश्रयस्य ।
लोकस्य संबुध्य च धर्मराजः करिष्यते बन्धनमोक्षमेषः

1.76

तन्मा कृथाः शोकमिमं प्रति त्वमस्मिन्स शोच्यो ऽस्ति मनुष्यलोके ।
मोहेन वा कामसुखैर्मदाद्वा यो नैष्ठिकं श्रोष्यति नास्य धर्मम्

1.77

भ्रष्टस्य तस्माच्च गुणादतो मे ध्यानानि लब्ध्वाप्यकृतार्थतैव ।
धर्मस्य तस्याश्रवणादहं हि मन्ये विपत्तिं त्रिदिवे ऽपि वासम्

1.78

इति श्रुतार्थः ससुहृत्सदारस्त्यक्त्वा विषादं मुमुदे नरेन्द्रः ।
एवंविधो ऽयं तनयो ममेति मेने स हि स्वामपि सारवत्ताम्

1.79

आर्षेण मार्गेण तु यास्यतीति चिन्ताविधेयं हृदयं चकार ।
न खल्वसौ न प्रियधर्मपक्षः । संताननाशात्तु भयं ददर्श

1.80

अथ मुनिरसितो निवेद्य तत्त्वं सुतनियतं सुतविक्लवाय राज्ञे ।
सबहुमतुमुदीक्ष्यमाणरूपः पवनपथेन यथागतं जगाम

1.81

कृतमितिरनुजासुतं च दृष्ट्वा मुनिवचनश्रवणे च तन्मतौ च ।
बहुविधमनुकम्पया स साधुः प्रियसुतवद्विनियोजयांचकार

1.82

नरपतिरपि पुत्रजन्मतुष्टो विषयगतानि विमुच्य बन्धनानि ।
कुलसदृशमचीरकरद्यथावत्प्रियतनयस्तनयस्य जातकर्म

1.83

दशसु परिणतेष्वहःसु चैव प्रयतमनाः परया मुदा परीतः ।
अकुरुत जपहोममङ्गलाद्याः परमभवाय सुतस्य देवतेज्याः

1.84

अपि च शतसहस्रपूर्णसंख्याः स्थिरबलवत्तनयाः सहेमशृङ्गीः ।
अनुपगतजराः पयस्विनीर्गाः स्वयमददात्सुतवृद्धये द्विजेभ्यः

1.85

बहुविधविषयास्ततो यतात्मा स्वहृदयतोषकरीः क्रिया विधाय ।
गुणवति नियते शिवे मुहूर्ते मतिमकरोन्मुदितः पुरप्रवेशे

1.86

द्विरदरदमयीमथो महार्हा सितसितपुष्पभृतां मणिप्रदीपाम् ।
अभजत शिविकां शिवाय देवी तनयवती प्रणिपत्य देवताभ्यः

1.87

पुरमथ पुरतः प्रवेश्य पत्नीं स्थविरजनानुगतामपत्यनाथाम् ।
नृपतिरपि जगाम पौरसंघैर्दिवममरैर्मघवानिवार्च्यमानः

1.88

भवनमथ विगाह्य शाक्यराजो भव इव षण्मुखजन्मना प्रतीतः ।
इदमिदमिति हर्षपूर्णवक्त्रो बहुविधपुष्टियशस्करं व्यधत्त

1.89

इति नरपतिपुत्रजन्मवृद्ध्या सजनपदं कपिलाव्हयं पुरं तत् ।
धनदपुरमिवाप्सरो ऽवकीर्ण मुदितमभून्नलकूबरप्रसूतौ

मूल पाठ: Buddhacarita · Edition: E.H. Johnston: The Buddhacarita: Or, Acts of the Buddha, Part I. Calcutta: Baptist Mission Press 1935 (Panjab University Oriental Publications, 31) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc