बृहत्संहिता · अध्याय 40
ये येषां द्रव्याणाम् अधिपतयो राशयः समुद्दिष्टाः।
मुनिभिः शुभाशुभार्थं तान् आगमतः प्रवक्ष्यामि॥
वस्त्र^आविक^कुतुपानां मसूर^गोधूम^रालक^यवानाम्।
स्थल^सम्भव^ओषधीनां कनकस्य च कीर्तितो मेषः॥
गवि वस्त्र^कुसुम^गोधूम^शालि^यव^महिष^सुरभितनयाः स्युः।
मिथुने +अपि धान्य^शारद^वल्ली^शालूक^कार्पासाः॥
कर्किणि कोद्रव^कदली^दूर्वा^फल^कन्द^पत्र^चोचानि।
सिंहे तुषधान्य^रसाः सिंह^आदीनां त्वचः सगुडाः॥
षष्ठे +अतसी^कलायाः कुलत्थ^गोधूम^मुद्ग^निष्पावाः।
सप्तमराशौ माषा *यव^गोधूमाः ससर्षपाश् च^एव[क्.गोधूमाः सर्षपाः सयवाः]॥
अष्टमराशाव् इक्षुः सैक्यं लोहान्य् अज^आविकं च^अपि।
नवमे तु तुरग^लवण^अम्बर^अस्त्र^तिल^धान्य^मूलानि॥
मकरे तरु^गुल्म^आद्यं सैक्य^इक्षु^सुवर्ण^कृष्णलोहानि।
कुम्भे सलिलज^फल^कुसुम^रत्न^चित्राणि रूपाणि॥
मीने कपाल^सम्भव^रत्नान्य् अम्बु^उद्भवानि वज्राणि।
स्नेहाश् च नैकरूपा व्याख्याता मत्स्यजातं च॥
राशेश् चतुर्^दश^अर्थ^अय^सप्त^नव^पञ्चमस्थितो जीवः।
द्व्य्^एकादश^दश^पञ्च^अष्टमेषु शशिजश् च वृद्धिकरः॥
षट्^सप्तमगो हानिं वृद्धिं शुक्रः करोति शेषेषु।
उपचय^संस्थाः क्रूराः शुभदाः शेषेषु हानिकराः॥
राशेर् यस्य क्रूराः पीडास्थानेषु संस्थिता बलिनः।
तत्प्रोक्त^द्रव्याणां महार्घता दुर्लभत्वं च॥
इष्टस्थाने सौम्या बलिनो येषां भवन्ति राशीनाम्।
तद्द्रव्याणां वृद्धिः *सामर्घ्यं वल्लभत्वं च[क्.सामर्थयमदुर्लभत्वं च]॥
गोचर^पीडायाम् अपि राशिर् बलिभिः शुभग्रहैर् दृष्टः।
पीडां न करोति तथा क्रूरैर् एवं विपर्यासः॥
41 अर्घकाण्डाध्यायः
मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0