बृहत्संहिता · अध्याय 39
वृश्चिक^वृष^प्रवेशे भानोर् ये बादरायणेन^उक्ताः।
ग्रीष्म^शरत्^सस्यानां सद्^असद्^योगाः कृतास् त इमे॥
भानोर् अलिप्रवेशे केन्द्रैस् तस्मात्^शुभग्रह^आक्रान्तैः।
बलवद्भिः सौम्यैर् वा *निरीक्षिते[क्.निरीक्षितैर्] ग्रैष्मिक^विवृद्धिः॥
अष्टमराशिगते +अर्के गुरुशशिनोः कुम्भ^सिंह^*संस्थितयोः[क्.स्थितयोः]।
सिंह^घट^संस्थयोर् वा निष्पत्तिर् ग्रीष्म^सस्यस्य॥
अर्कात् सिते द्वितीये बुधे +अथ वा युगपद् एव वा स्थितयोः।
व्ययगतयोर् अपि तद्वन् निष्पत्तिर् अतीव गुरुदृष्ट्या॥
शुभमध्ये +अलिनि सूर्याद् गुरुशशिनोः सप्तमे परा सम्पत्।
अल्य्^आदिस्थे सवितरि गुरौ द्वितीये +अर्धनिष्पत्तिः॥
लाभ^हिबुक^अर्थ^युक्तैः सूर्याद् अलिगात् सित^इन्दु^शशिपुत्रैः।
सस्यस्य परा सम्पत् कर्मणि जीवे गवां च^अग्र्या॥
कुम्भे गुरुर् गवि शशी सूर्यो +अलिमुखे कुज^अर्कजौ मकरे।
निष्पत्तिर् अस्ति महती पश्चात् परचक्र^भय^रोगम्॥
मध्ये पापग्रहयोः सूर्यः सस्यं विनाशयत्य् अलिगः।
पापः सप्तमराशौ जातं जातं विनाशयति॥
अर्थस्थाने क्रूरः सौम्यैर् अनिरीक्षितः प्रथमजातम्।
सस्यं निहन्ति पश्चाद् उप्तं निष्पादयेद् व्यक्तम्॥
जामित्र^केन्द्र^संस्थौ क्रूरौ सूर्यस्य वृश्चिक^स्थस्य।
सस्य^विपत्तिं कुरुतः सौम्यैर् दृष्टौ न सर्वत्र॥
वृश्चिक^संस्थाद् अर्कात् सप्तम^षष्ठ^उपगौ यदा क्रूरौ।
भवति तदा निष्पत्तिः सस्यानाम् अर्घ^परिहानिः॥
विधिना^अनेन^एव रविर् वृष^प्रवेशे शरत्^समुत्थानाम्।
विज्ञेयः सस्यानां नाशाय शिवाय वा तज्ज्ञैः॥
त्रिषु मेष^आदिषु सूर्यः सौम्ययुतो वीक्षितो +अपि वा विचरन्।
*ग्रैष्मिक[क्.ग्रष्मिक]धान्यं कुरुते *समर्घम्[क्.समर्थम्] अभय^उपयोग्यं च॥
कार्मुक^मृग^घट^संस्थः *शारद^सस्यस्य[क्.शारदस्य] तद्वद् एव रविः।
संग्रहकाले ज्ञेयो विपर्ययः क्रूरदृग्^*योगात्[क्.यागात्]॥
40 द्रव्यनिश्चयाध्यायः
मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0