भाषा

ENहिગુ
ग्रंथ पाठ

बृहत्संहिता · अध्याय 38

38.01

पवनः पवन^अभिहतो गगनाद् अवनौ यदा समापतति।
भवति तदा निर्घातः स च पापो दीप्त^विहग^रुतः॥

38.02

अर्क^उदये +अधिकरणिक^नृप^धनि^योध^अङ्गना^वणिग्^वेश्याः।
आप्रहरांशे +अज^आविकम् उपहन्यात्^शूद्रपौरांश् च॥

38.03

आमध्य^अह्नाद् राज^उपसेविनो ब्राह्मणांश् च पीडयति।
वैश्य^जलदांस् तृतीये चौरान् प्रहरे चतुर्थे तु॥

38.04

अस्तं याते नीचान् प्रथमे यामे निहन्ति सस्यानि।
रात्रौ द्वितीय^यामे पिशाच^सङ्घान् निपीडयति॥

38.05

तुरग^करिणस् तृतीये विनिहन्याद् यायिनश् चतुर्थे च।
भैरव^जर्जरशब्दो याति यतस् तां दिशं हन्ति॥
39 सस्यजातकाध्यायः

मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc