बृहत्संहिता · अध्याय 37
प्रतिसूर्यकः प्रशस्तो दिवसकृद्^ऋतु^वर्ण^सप्रभः स्निग्धः।
वैदूर्य^निभः स्वच्छः शुक्लश् च क्षेम^सौभिक्षः॥
पीतो व्याधिं जनयत्य् अशोकरूपश् च शस्त्र^कोपाय।
प्रतिसूर्याणां माला दस्यु^भय^आतङ्क^नृप^हन्त्री॥
दिवसकृतः प्रतिसूर्यो जलकृद्^उदग्^दक्षिणे स्थितो +अनिलकृत्।
उभयस्थः सलिलभयं नृपम् उपरि निहन्त्य् अधो जनहा॥
[क्.छप्. 38 रजोलक्षणम् इन्सेर्तेद्
क्.38.01अब्। कथयन्ति पार्थिववधं रजसा घन^तिमिर^सञ्चय^निभेन।
क्.38.01च्द्। अविभाव्यमान^गिरि^पुर^तरवः सर्वा दिशश् छन्नाः॥
क्.38.02अब्। यस्याम् दिशि धूमचयः प्राक् प्रभवति नाशमेति वा यस्याम्।
क्.38.02च्द्। आगच्छति सप्ताहात् तत्र एव भयं न सन्देहः॥
क्.38.03अब्। श्वेते रजोघनौघे पीडा स्यान् मन्त्रिजनपदानां च।
क्.38.03च्द्। नचिरात् प्रकोपम् उपयाति शस्त्रम् अतिसङ्कुला सिद्धिः॥
क्.38.04अब्। अर्कोदये विजृम्भति यदि दिनम् एकं दिनद्वयं वा^अपि।
क्.38.04च्द्। स्थगयन्न् इव गगन^तलं भयम् अत्युग्रं निवेदयति॥
क्.38.05अब्। अनवरतसञ्चयवहं रजनीम् एकां प्रधाननृप^हन्तृ।
क्.38.05च्द्। क्षेमाय च शेषाणां विचक्षणानां नरेन्द्राणाम्॥
क्.38.06अब्। रजनीद्वयं विसर्पति यस्मिन् राष्ट्रे रजोघनं बहुलम्।
क्.38.06च्द्। परचक्रस्य आगमनं तस्मिन्न् अपि सन्निबोद्धव्यम्॥
क्.38.07अब्। निपतति रजनीत्रितयं चतुष्कम् अप्य् अन्नरसविनाशाय।
क्.38.07च्द्। राज्ञां सैन्यक्षोभो रजसि भवेत् पञ्चरात्रभवे॥
क्.38.08अब्। केत्वाद्युदयविमुक्तं यदा रजो भवति तीव्रभयदायि।
क्.38.08च्द्। शिशिराद् अन्यत्रर्तौ फलम् अविकलम् आहु आचार्याः॥]
38 निर्घातलक्षणाध्यायः
मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0