भाषा

ENहिગુ
ग्रंथ पाठ

बृहत्संहिता · अध्याय 106

106.01

शास्त्र^उपनयः पूर्वं सांवत्सरसूत्रम् अर्कचारश् च।
शशि^राहु^भौम^बुध^गुरु^सित^मन्द^शिखि^ग्रहाणां च॥

106.02

चारश् च^अगस्त्यमुनेः सप्तर्षीणां च कूर्म^योगश् च।
नक्षत्राणां व्यूहो ग्रहभक्तिर् ग्रहविमर्दश् च॥

106.03

ग्रह^शशि^योगः सम्यग्^ग्रह^वर्षफलं ग्रहाणां च।
शृङ्गाट^संस्थितानां मेघानां गर्भ^लक्षणं च^एव॥

106.04

धारण^वर्षण^रोहिणि^वायव्य^आषाढ^भद्रपद[क्.भाद्रपद]^योगाः।
क्षणवृष्टिः कुसुमलताः सन्ध्या^चिह्नं दिशां दाहः॥

106.05

भूकम्प^उल्का^परिवेष^लक्षणं शक्रचाप^खपुरं च।
प्रतिसूर्यो निर्घातः सस्य^द्रव्य^अर्घकाण्डं च॥

106.06

इन्द्रध्वज^नीराजन^खञ्जनक^उत्पात^वर्हि[क्.बर्हि]चित्रं च।
पुष्य^अभिषेक^पट्टप्रमाणम् असिलक्षणं वास्तु॥

106.07

उदक्[क्.उदग्]आर्गलम् आरामिकम् अमरालय^लक्षणं कुलिशलेपः।
प्रतिमा वनप्रवेशः सुरभवनानां प्रतिष्ठा च॥

106.08

चिह्नं गवाम् अथ शुनाम् कुक्कुट^कूर्म^अज^पुरुष^चिह्नं च।
पञ्च^मनुष्य^विभागः स्त्रीचिह्नं वस्त्र^विच्छेदः॥

106.09

चामर^दण्ड^परीक्षा स्त्री^स्तोत्रं च^अपि सुभग^करणं च।
कान्दर्पिक^अनुलेपन^पुंस्त्रिकाध्याय^शयन^विधिः॥

106.10

वज्र^परीक्षा मौक्तिक^लक्षणम् अथ पद्मराग^मरकतयोः।
दीपस्य लक्षणं दन्तधावनं शाकुनं मिश्रम्॥

106.11

अन्तरचक्रं विरुतं श्वचेष्टितं विरुतम् अथ शिवायाश् च॥
चरितं मृग^अश्व^करिणां वायस^विद्योत्तरं च ततः॥

106.12

पाको नक्षत्र^गुणास् तिथि^करण^गुणाः सधिष्ण्य^जन्म^गुणाः।
*गोचरम् अथ[क्.गोचरस् तथा] ग्रहाणां कथितो नक्षत्रपुरुषश् च॥

106.13

शतम् इदम् अध्यायानाम् अनुपरिपाटिक्रमाद् अनुक्रान्तम्।
अत्र श्लोक^सहस्राण्य् आबद्धान्य् ऊनचत्वारि॥
106.14अब्[क्.ओमित्तेद्]। अत्र^एव^अन्तर्भूतं परिशेषं निगदितं च यात्रायाम्।
106.14च्द्[क्.ओमित्तेद्]। बह्वाश्चर्यं जातकम् उक्तं करणं च बहुचोद्यम्॥

मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc