भाषा

ENहिગુ
ग्रंथ पाठ

बृहत्संहिता · अध्याय 100

100.01

प्रियभूषणः स्वरूपः[क्.सुरूपः] सुभगो दक्षो +अश्विनीषु मतिमांश् च।
कृतनिश्चय^सत्य^अरुग्^दक्षः सुखितश् च भरणीषु॥

100.02

बहुभुक् परदाररतस् तेजस्वी कृत्तिकासु विख्यातः।
रोहिण्यां सत्य^शुचिः प्रियंवदः *स्थिरः स्वरूपश् च[क्.स्थिरसुरूपश् च]॥

100.03

चपलश् चतुरो भीरुः पटुर् उत्साही धनी मृगे भोगी।
शठ^गर्वित^चण्ड^कृतघ्न^हिंस्र^पापश् च रौद्र^ऋक्षे॥

100.04

दान्तः सुखी सुशीलो दुर्मेधा रोगभाक् पिपासुश् च।
अल्पेन च सन्तुष्टः पुनर्वसौ जायते मनुजः॥

100.05

शान्तात्मा सुभगः पण्डितो धनी धर्म^संश्रितः पुष्ये।
शठ^सर्व^भक्षक्ष्य[क्.भक्ष][उ.भक्ष्य]^पापः कृतघ्न^धूर्तश् च भौजङ्गे॥

100.06

बहुभृत्य^धनी भोगी सुर^पितृ^भक्तो महोद्यमः पित्र्ये।
प्रियवाग् दाता द्युतिमान् अटनो नृप^सेवको भाग्ये॥

100.07

सुभगो विद्या^आप्तधनो भोगी सुखभाग् द्वितीयफल्गुन्याम्।
उत्साही धृष्टः पानपो +अघृणी तस्करो हस्ते॥

100.08

चित्रा^अम्बर^माल्य^धरः सुलोचनाङ्गश् च चित्रायाम्[क्.भवति चित्रायाम्]।
दान्तो वणिक् तृषालुः[क्.कृपालुः] प्रियवाग् धर्माश्रितः स्वातौ॥

100.09

ईर्षुर्[क्.इर्ष्युर्] लुब्धो द्युतिमान् वचनपटुः कलहकृद् विशाखासु॥
आढ्यो विदेशवासी क्षुधालुर् अटनो +अनुराधासु॥

100.10

ज्येष्ठासु न बहुमित्रः सन्तुष्टो धर्मकृत् प्रचुरकोपः।
मूले मानी धनवान् सुखी न हिंस्रः स्थिरो भोगी॥

100.11

इष्टा^नन्द^कलत्रो वीरो दृढ^सौहृदश् च जलदेवे।
वैश्वे विनीत^धार्मिक^बहु^मित्र^कृतज्ञ^सुभगश् च॥

100.12

श्रीमान् श्रवणे श्रुतवान् उदार^दारो धन^अन्वितः ख्यातः।
दाता^आढ्य^शूर^गीतप्रियो धनिष्ठासु धन^लुब्धः॥

100.13

स्फुटवाग् व्यसनी रिपुहा साहसिकः शतभिषक्सु दुर्ग्राह्यः।
भद्रपदासु^उद्विग्नः स्त्रीजित^धन^पटुर् अदाता च॥

100.14

वक्ता सुखी प्रजावान् जितशत्रुर् धार्मिको द्वितीयासु॥
सम्पूर्ण^अङ्गः सुभगः शूरः शुचिर् अर्थवान् पौष्णे॥
101 राशिविभागाध्यायः

मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc