भाषा

ENहिગુ
ग्रंथ पाठ

बृहत्संहिता · अध्याय 99

99.01

वव^वालव^कौलव[क्.बवबालवकौलब]^तैतिल^आख्य^गर^वणिज^विष्टिसंज्ञानाम्।
पतयः स्युर् इन्द्र^कमलज^मित्र^अर्यम^भू^श्रियः सयमाः॥

99.02

कृष्ण^चतुर्दश्यर्धाद् धुवाणि[क्.ऊ.ध्रुवाणि] शकुनिश् चतुष्पदं नागम्।
किंस्तुघ्नम् इति च तेषां कलि^वृष^फणि^मारुताः पतयः॥

99.03

कुर्याद् ववे[क्.बवे] शुभ^चर^स्थिर^पौष्टिकानि
धर्मक्रिया^द्विज^हितानि च वालव[क्.बालव]^आख्ये।
सम्प्रीति^मित्र^वरणानि च कौलवे[क्.कौलबे] स्युः
सौभाग्य^संश्रय^गृहाणि च तैतिल^आख्ये॥

99.04

कृषि^बीज^गृह^आश्रय^जानि गरे
वणिजि धुव[क्.ध्रुव]^कार्य^वणिग्^युतयः।
न हि विष्टिकृतं विदधाति शुभं
पर^घात^विष^आदिषु सिद्धिकरम्॥

99.05

कार्यं पौष्टिकम् औषधादि शकुनौ मूलानि मन्त्रास् तथा
गोकार्याणि चतुष्पदे द्विजपितृन् उद्दिश्य राज्यानि च।
नागे स्थावर^दारुणानि हरणं दौर्भाग्य^कर्माण्य् अतः
किंस्तुघ्ने शुभम् इष्टि[क्.इष्ट]पुष्टिकरणं मङ्गल्य^सिद्धि^क्रियाः॥
99.06अब्[क्.ओमित्तेद्]। लाभे तृतीये च शुभैः समेते पापैर् विहीने शुभराशिलग्ने।
99.06च्द्[क्.ओमित्तेद्]। वेध्यौ च कर्णाव् अमरेज्यलग्ने पुष्य^इन्दु^चित्रा^हरि^पौष्ण^भेषु॥

99.07

रोहिण्य्^उत्तर^रेवती^मृगशिरो^मूल^अनुराधा^मघा^
हस्त^स्वातिषु षष्ठ^तौलि^मिथुनेषु^उद्यत्सु पाणि^ग्रहः।
सप्त^अष्ट^अन्त्य^बहिःशुभैर् उडुपताव् एकादश^द्वि^त्रिगे
क्रूरैस् त्र्यायषडष्टगैर् न तु भृगौ षष्ठे कुजे च^अष्टमे॥

99.08

दम्पत्योर् द्वि^नव^अष्ट^राशि^रहिते चार^अनुकुले रवौ
चन्द्रे च^अर्क^कुज^अर्कि^शुक्र^वियुते मध्ये +अथ वा पापयोः।
त्यक्त्वा च व्यतिपात^वैधृति[क्.वैधृत]^दिनं विष्टिं च रिक्तां तिथिं
क्रूराहायन^पौष^चैत्र[क्.चैत्रपौष]^विरहे लग्न^अंशके मानुषे॥
100 नक्षत्रजातकाध्यायः

मूल पाठ: Bṛhatsaṃhitā · Edition: of A.V.Tripathi (Sarasvati Bhavan Granthamala Edition) with reference to H.Kern's text and his translation [variants marked by K. & K's tr.] and Utpala's commentary [marked by U.] · Data entry Michio Yano Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc