भाषा

ENहिગુ
ग्रंथ पाठ

बृहत्पाराशरहोराशास्त्रम् · अध्याय 77

77.77

अथ सत्त्वादिगुणफलाध्यायः

77.1

अथो गुणवशेनाहं कथयामि फलं द्विज ।
सत्त्वग्रहोदये जातो भवेत्सत्त्वाधिकः सुधीः

77.2

रजःखेटोदये विज्ञो रजोगुणसमन्वितः ।
तमःखेटोदये मूर्खो भवेज्जातस्तमोऽधिकः

77.3

गुणसाम्ययुतो जातो गुणसाम्यखगोदये ।
एवं चतुर्विधा विप्र जायन्तो जन्तवो भुवि

77.4

उत्तमो मध्यमो नीच उदासीन इति क्रमात् ।
तेषां गुणानहं वक्ष्ये नारदारिप्रभाषितान्

77.5

शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च ।
अलोभः सत्यवादित्वं जने सत्त्वाधिके गुणाः

77.6

शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाऽप्यपलायनम् ।
साधूनां रक्षणं चेति गुणा ज्ञेया रजोऽधिके

77.7

लोभश्चासत्यवादित्वं जाड्यमालस्यमेव च ।
सेवाकर्मपटुत्वंच गुणा एते तमोऽधिके

77.8

कृषिकर्मणि वाणिज्ये पटुत्वं पशुपालने ।
सत्यासत्यप्रभाषित्वं गुणसाम्ये गुणा इमे

77.9

गतैश्च लक्षणैर्लक्ष्य उत्तमो मध्यमोऽधमः ।
उदासीनश्च विप्रेन्द तं तत्कर्मणि योजयेत्

77.10

द्वाभ्यामेकोऽधिको यश्च तस्याधिक्यं निगद्यते ।
अन्यथा गुणसाम्यं च विज्ञेयं द्विजसत्तम

77.11

सेव्यसेवकयोरेवं कन्यकावरयोरपि ।
गुणैः सदृशयोरेव प्रीतिर्भवति निश्चला

77.12

उदासीनोऽधमस्यैवमुदासीनस्य मध्यमः ।
मध्यमस्योत्तमो विप्र प्रभवत्याश्रयो मुदे

77.13

अतोऽवरा वरात् कन्य सेव्यतः सेवकोऽवरः ।
गुणैस्ततः सुखोत्पत्तिरन्यथा हानिरेव हि

77.14

वीर्यं क्षेत्रं प्रसूतेश्च समयः सङ्गतिस्तथा ।
उत्तमादिगुणे हेतुर्बलवानुत्तरोत्तरम्

77.15

अतः प्रसूतिकालस्य सदृशो जातके गुणः ।
जायते तं परीक्ष्यैव फलं वाच्यं विचक्षणैः

77.16

कालः सृजति भूतनि पात्यथो संहरत्यपि ।
इश्वरः सर्वलोकानामव्ययो भगवान् विभु

77.17

तच्छक्तिः प्रकृतिः प्रोक्ता मुनिभिस्त्रिगुणात्मिका ।
तथा विभक्तोऽव्यक्तोऽपि व्यक्तो भवति देहिनाम्

77.18

चतुर्धाऽवयवास्तस्य स्वगुणैश्च चतुर्विधः ।
जायन्ते ह्युत्तमो मध्ये उदासीनोऽधमः क्रमात्

77.19

उत्तमे तूत्तमो जन्तुर्मध्येऽङ्गे च मध्यमः ।
उदासीने ह्यदासीनो जायते चाऽधमेऽधमः

77.20

उत्तमाङ्गं शरिस्तस्य मध्यमाङ्गमुरःस्थलम् ।
जंघाद्वयौदासीनमधमं पदमुच्यते

77.21

एवं गुणवशादेव कालभेदः प्रजायते ।
जातिभेदस्तु तद्भेदाज्जायतेऽत्र चराचरे

77.22

एवं भगवता सृष्टं विभुना स्वगुणैः समम् ।
चतुर्विधेन कालेन जगदेतच्चतुर्विधम्

मूल पाठ: bṛhatpārāśarahorāśāstram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc